________________
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययनम्
आचख्युरपरे सभ्या भूधवोऽप्यभ्यधादिति । किञ्चिदूनेन रूपेण पिशितं प्राप्यते बहु ||६|| अभयोऽभणदेवं चेद् भवतां सम्मतं तदा । प्रत्ययं दर्शयिष्येऽहमत्रार्थे भोः ! निरीक्ष्यताम् ॥७॥ भूयो भूपं बभाणासौ साम्राज्यं दिनपञ्चकम् । देहि तात ! ततस्तेन तस्मै प्रादायि तल्लघु ॥ राजा त्वन्तः पुरे तस्थावभयः पुनरग्र्यधीः । राजाङ्गचङ्गिमाहेतोः कालेयं दत्त भो इति ॥९॥ पटहं घोषयामास योऽतिभक्तो नृपे स तु ।
द्वितयदनं तद् दत्त्वा वाञ्छितभाग् भवेत् ||१०|| इत्याकर्ण्य वचोऽनिष्टं मौनमादधिरे जनाः । अभाषन्त च तद्दाने म्रियेमहि वयं क्षणात् ॥११॥ अथाभय इति श्रुत्वा सर्वान् सभ्यानवीवदत् । अस्मिन्नदत्ते लोकानां च्छुटिः स्यात् कथमत्र भोः ! ||१२|| ततोऽभिभीतभीतास्ते पौराः प्राञ्जलयः समे । अनेकद्युम्नकोटीनां कूटैः पर्वतसन्निभैः ॥१३॥
वेश्म श्रेणिकभूपस्य पूरयामासुरञ्जसा । सर्वं लोकं समुद्घाती केवलीवात्मपुद्गलैः ||१४|| युग्मम् विविधैर्दानसन्मानप्रियालापैः स मन्त्रिराट् । पञ्चाहं तोषयामास लोकान् कोकानिवार्यमा ||१५|| ततः षष्ठे दिने राजा स्वराज्यमधितस्थिवान् । आस्थाने धनकोटीश्च दृष्ट्वाऽभूद् विस्मिताशयः ॥१६॥ पुनः स प्राह भोः पुत्र ! केन दत्तं कथञ्चन ? । प्राप्तमेतत् त्वया द्रव्यं पीडिता मत्प्रजाः किमु ? ||१७|| पौरान् कथं पीडयामि किञ्चित् पुण्यं विदन्नहम् । स्वचरान् प्रेष्य वित्थेदं नृपा हि चरचक्षुषः ||१८|| ते प्रोचुर्भूपतिं स्वामिन् ! भ्रमन्तः सर्वतो यशः । श्रावं श्रावममात्येशो मुदमादध्महे वयम् ||१९|
For Private & Personal Use Only
Jain Education International 2010_02
२४७
www.jainelibrary.org