________________
२४६
उत्तरज्झयणाणि-१ सूत्रत्वात् पौरुषेयं च पदात्यादि दासपौरुषेयं सर्वत्र द्वन्द्वः । सर्वमेतत् त्यक्त्वा संयम परिपाल्येत्याशयः । कामरूपी मनीषितरूपविकरणशक्तिमान् भविष्यसि । इहैव वैक्रियकरणाद्यनेकलब्धियोगात् परत्र च देवभवावाप्तेरिति । अत्रान्तरे थावरेति गाथा प्रक्षेपरूपा ज्ञेया । द्वयोष्टीकयोरव्याख्यातत्वात् ॥५॥ तथा
थावरं जंगमं चेव धणं धन्नं उवक्खरं ।
पच्चमाणस्स कम्मेहिं नालं दुक्खाउ मोयणे ॥६॥ व्याख्या स्थावरं सुवर्णभूम्यादि, जङ्गमं गोगजादि, धनं, धान्यमुपस्करश्च सर्वमेतन्नरकादिकर्मभिः पच्यमानस्य जीवस्य दुःखमोचने नालं न पर्याप्तम् ॥६॥ पुनः सत्यस्वरूपमाह
अज्झत्थं सव्वओ सव्वं दिस्स पाणे पियायए । ____ न हणे पाणिणो पाणे भयवेराओ उवरए ॥७॥
व्याख्या-अध्यात्म मनस्तस्मिस्तिष्ठतीत्यध्यात्मस्थं सुखादि सूत्रत्वाद् वर्णलोपः सर्वत इष्टसंयोगादिहेतुभ्यो जातमिति गम्यम् । सर्वं निरवशेषं 'दिस्स'त्ति दृष्ट्वा प्रियत्वादिस्वरूपेणावधार्य तथा चस्य गम्यत्वात् प्राणांश्च प्राणिनः प्रिय आत्मा येषां ते तान् प्रियात्मकान् दृष्ट्वेत्यत्रापि योज्यं ततो न हन्यादुपलक्षणान्नापि घातयेन्न वा घ्नन्तमनुजानीयात् प्राणान् प्राणिन इत्यत्र जातावेकवचनं । कीदृक् भयवैरादुपरतो निवृत्तः सन् । प्रियात्मन इत्यत्र दृष्टान्तस्तद्यथा
मगधासु पुरे राजगृहे श्रेणिकभूपतिः । सभासीनोऽन्यदाऽप्राक्षीत् पार्षद्यान् धीसखादिकान् ॥१॥ संसारे किं महयँ भोः ! प्रभूतेष्वपि वस्तुषु ? । तद्राज्ये सचिवानां हि समस्ति शतपञ्चकम् ॥२॥ तेषु कोऽप्यूचिवान् स्वामिन् ! धान्यमाद्यं महार्घकम् । वस्त्रादि लवणं कश्चित् कश्चिदष्टापदादिकम् ॥३॥ कर्पूरं कुङ्कमं कश्चिद् गोतुरङ्गादि कश्चन । एवं महर्घ्यं सर्वेऽन्ये मन्त्रिणः स्वेष्टमूचिरे ॥४॥ ततोऽभयकुमाराख्यः समस्तसचिवाग्रणीः । औत्पात्तिक्यादिधीभूमिर्महाघु मांसमब्रवीत् ॥५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org