________________
२४४
उत्तरज्झयणाणि-१ तेन मन्दधिया विद्यापुरश्चरणभीरुणा । दृष्टभोगैकतृष्णेन ययाचे तादृशो घटः ॥१८॥ तस्मै स परिनिष्पन्नमदात् कामघटं मुदा । तमादाय स सन्तुष्टमना ग्राममगान्निजम् ॥१९॥ भुज्यते याऽन्यदेशस्थैः किं तथाविधया श्रिया । मित्रैस्सह न या भुक्ता यामपश्यन्न चारयः ॥२०॥ इति जानन् घटस्यास्य प्रसादात् सपरिच्छदः । यथाऽभिरुचितं भेजे भोगं सौधाङ्गनादिकम् ॥२१॥ मुक्तं कार्षीबलं कर्म सेवाद्यं शिथिलीकृतम् । गतं गवादिकं सोऽभूद् घटमात्रैकजीवनः ॥२२॥ अन्यदा सीधु पीत्वाऽसौ स्कन्धे कृत्वा घटं मदात् । ननर्तास्य प्रभावेन सुख्यस्मीत्यादिगीतगीः ॥२३॥ विह्वलत्वाद् घटस्तस्य पपात स्कन्धदेशतः ।। भग्नश्च तत्कृता भोगसामग्र्योऽपि क्वचिद् गताः ॥२४॥ स तत्परिकरश्चापि ही ! विद्याऽग्राहि नो मुधा । तप्यमान इति प्रेष्य कष्टेन स्वमजीवयत् ।।२५।। सोऽग्रहीष्यत विद्यां चेदकरिष्यद् घटं पुनः । अभविष्यत् पुनस्तस्माद् भोगाभोगविलासवान् ॥२६॥ विद्यया विप्रयुक्तोऽसावलक्ष्मी सोढवान् यथा ।
सब्लिश्यन्ते तथा जीवास्तत्त्वज्ञानविनाकृताः ॥२७॥ इति तत्त्वाज्ञाने ग्रामीणकथा ॥१॥ कृत्यमाह
समिक्ख पंडिए तम्हा पासजाईपहे बहू ।
अप्पणा सच्चमेसिज्जा मित्ति भूएसु कप्पई ॥२॥ व्याख्या-समीक्ष्यालोच्य पण्डितो हिताहितविवेकवान् यस्मादेवमविद्यावतो लुप्यन्ते तस्मात् किं तत् समीक्ष्येत्याह-पाशा अत्यन्तपारवश्यहेतवः कलत्रादिसम्बन्धाः । यदुक्तम्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org