SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पञ्चममकाममरणाध्ययनम् २३९ अनयोर्व्याख्या-उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयोदयात् । द्युतिमन्तो दीप्तिमन्तः तथाविधदेवाश्रयत्वादावासा अप्येवमुच्यन्ते। 'अणुपुव्वसो'त्ति अनुपूर्वतः क्रमेण सौधर्माद्यनुत्तरविमानान्तेषु पूर्वपूर्वापेक्षया प्रकर्षण विमोहादिविशेषणविशिष्टाः समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः । प्राकृतत्वान्नपुंसकत्वं । देवास्तु तत्र यशस्विनो दीर्घ सागरोपमानतया आयुरेषामिति दीर्घायुषः । ऋद्धिमन्तो रत्नादिसम्पदुपेताः समिद्धा अतिदीप्ताः कामरूपिणोऽभिलाषानुरूपकारिणः । अनुत्तरेष्वपि विकरणशक्तेः सत्त्वात् । अधुनोपपन्नसंकाशाः प्रथमोत्पन्नदेवसदृशाः । अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव भवति। भूयः प्राचुर्येणाचिर्मालिः सूर्यस्तद्वत् प्रभा येषां ते तथा प्रभूतादित्यदीप्तय इति गाथाद्वयार्थः ॥२६-२७॥ उपसंहर्तुमाह ताणि ठाणाणि गच्छंति सिक्खित्ता संयम तवं । भिक्खाए वा गिहत्थे वा जे संतिपरिनिव्वुडा ॥२८॥ व्याख्या-तान्युक्तस्वरूपाणि स्थानान्यावासात्मकानि गच्छन्त्युपलक्षणाद् गता गमिष्यन्ति चोपलक्षणात् सौधर्मादिष्वपि तत्रापि तेषां केषाञ्चिद् गमनसम्भवात् शिक्षित्वाऽभ्यस्य संयम सप्तदशभेदं तपो द्वादशविध भिक्षादा वा गृहस्था वा भावतो यतय इति ये शान्त्योपशमेन परिनिर्वृताः शान्तिपरिनिर्वता विध्यातकषायानला इत्यर्थः ॥२८॥ मरणेऽपि यथाभूता महात्मानः स्युस्तथा चाह तेसिं सुच्चा सपुज्जाणं संजयाणं वुसीमओ । न संतसंति मरणंते सीलमंता बहुस्सुया ॥२९॥ व्याख्या-तेषामुक्तस्वरूपाणां यतीनां श्रुत्वोक्तस्थानावाप्तिमिति शेषः । सत्पूज्यानां सतां पूजाऽर्हाणां संयतानां वश्यवतां प्राग्वत् न सन्त्रस्यन्ति नोद्विजन्ते क्व ? मरणान्ते शीलवन्तश्चारित्रिणो बहुश्रुता आगमवेदिनोऽयं भावो य एवाधार्मिकास्त एव मरणादुद्विजन्ते । यथा क्वास्माभिर्मृत्वा गन्तव्यम् ? समुपार्जितधर्माणस्तु नोद्विजन्ते । उक्तञ्च "सुगहियतवपत्थयणा विसुद्धसम्मत्तनाणचारित्ता । मरणं ऊसवभूयं मन्नंति समाहियप्पाणो" ॥१॥ १. सुगृहीततपःपथ्यदना विशुद्धसम्यक्त्व-ज्ञान-चारित्राः । मरणमुत्सवभूतं मन्यन्ते समाहितात्मानः ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy