________________
२४०
उत्तरज्झयणाणि-१ उपदेशमाह
तुलिया विसेसमादाय दयाधम्मस्स खंतिए ।
विप्पसीइज्ज मेहावी तहाभूएण अप्पणा ॥३०॥ व्याख्या-तोलयित्वा परीक्ष्य बालपण्डितमरणे ततो विशेषं बालमरणात् पण्डितमरणस्य वैशिष्ट्यलक्षणादाय गृहीत्वा तथा दयाधर्मस्य च यतिधर्मस्य चशब्दोऽत्र गम्यः, विशेषं शेषधर्मातिशायित्वलक्षणमादायेति सम्बन्धः । कया क्षान्त्या कृत्वा विप्रसीदेद् विशेषेण प्रसन्नो भवेन्न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजाङ्गलिभङ्गादिना कषायितामवलम्बेत । मेधावी मर्यादावर्ती तथाभूतेन यथैव मरणकालात् प्रागनाकुलचित्तोऽभून्मरणकालेऽपि तथाऽवस्थितेनात्मनोपलक्षित इति ॥३०॥ विप्रसन्नश्च यत् कुर्यात् तदाह
तओ काले अभिप्पेए सड्डी तालीसमंतिए ।
विणएज्ज लोमहरिसं भेअं देहस्स कंखए ॥३१॥ व्याख्या-ततः कषायोपशमानन्तरं काले मरणरूपेऽभिप्रेते कदा च मरणमभिप्रेतं 'यदा योगा नोत्सर्पन्ति' 'सड्डि'त्ति श्रद्धावांस्तादृशं भयोत्थमन्तिके समीपे गुरूणां मरणस्य वा विनयेद् विनाशयेत् कं लोमहर्षं रोमाञ्चम् । हा ! मे मरणं भावीति भयाभिप्रायभावं । किञ्च भेदं विनाशं देहस्य कावेदिव काक्षेत् त्यक्तपरिकर्मतया न तु मरणाशंसया वर्जनीयत्वादस्या इति ॥३१॥ निगमयन्नाह
अह कालंमि संपत्ते आघायाय समुस्सयं ।
सकाममरणं मरई तिहमन्नयरं मुणी ॥३२॥ त्ति बेमि ॥ व्याख्या-अथ मरणाभिप्रायानन्तरं काले मरणकाले सम्प्राप्ते
"निप्फाइया य सीसा सउणी जह अंडयं पयत्तेणं ।
बारस संवच्छरियं अह संलेहं तो करइ" ॥१॥ इत्यादिक्रमेणायाते ‘आघायाय'त्ति आघातयन् संलेखनादिभिरुपक्रमणहेतुभिः समन्ताद् विनाशयन् समुच्छ्यम् अन्तः कार्मणशरीरं बहिरौदारिकं । किं कुर्यादित्याह-सकामस्य
१. निष्पादिताश्च शिष्याः शकुनिर्यथाऽण्डकं प्रयत्नेन ।
द्वादशसांवत्सरिकमथ संलेखं ततः करोति ॥१॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org