________________
२३८
उत्तरज्झयणाणि-१ व्याख्या–अगारिणो गृहिणः सामायिकस्य सम्यक्त्वश्रुतदेशविरतिरूपस्याङ्गानि निःशङ्कितादीनि 'सड्डि'त्ति श्रद्धावान् कायेनोपलक्षणान्मनोवाग्भ्यां स्पृशति सेवते पोषणं पोषोऽर्थाद् धर्मस्य तं धत्त इति पोषधमाहारपौषधादि तं 'दुहओ पक्खं' ति द्वयोरपि सितेतरपक्षयोश्चतुर्दश्यादितिथिषु । एकरात्रमुपलक्षणदेकदिनमपि 'न हावए'त्ति न हापयति न हानि प्रापयति । रात्रिग्रहणं दिवा व्यग्रतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यादिति ज्ञापनार्थं, पौषधस्य सामायिकाङ्गत्वेऽपि पृथग् ग्रहणमत्यादरख्यापनार्थम् ॥२३॥ उपसंहरन्नाह
एवं सिक्खासमावन्ने गिहवासे वि सुव्वए ।
मुच्चई च्छविपव्वाओ गच्छे जक्खसलोगयं ॥२४॥ व्याख्या-एवमुक्तप्रकारेण शिक्षया व्रतासेवनाऽऽत्मिकया समापन्नः शिक्षासमापन्नो गृहवासेऽप्यास्तां व्रतपर्याये इत्यपरेर्थः । सुव्रतः शोभनव्रतो मुच्यते कुतश्छविस्त्वक् पर्वाणि च कूर्परादीनि छविपर्व तद्योगादौदारिकवपुरपि च्छविपर्व तस्मात् ततश्च गच्छेत् समानो लोकोऽस्येति सलोकस्तस्य भावस्तत्ता यक्षैर्देवैः सलोकता यक्षसलोकता तामर्थाद् देवगतिं यायात् ॥२४॥ पण्डितमरणफलमाह
अह जे संवुडे भिक्खू दोण्हमण्णयरे सिया ।
सव्वदुक्खप्पहीणे वा देवे वा वि महिड्डिए ॥२५॥ व्याख्या-अथ 'जे' इत्ति य इत्यनिर्दिष्टः संवृतः पिहिताश्रवद्वारो भिक्षुर्भावयतिर्द्वयोरन्यतर एकतरः स्याद् ययोरन्तरः स्यात् तावाह-सर्वाणि दुःखानि क्षुत्पिपासानिष्टयोगेष्टवियोगादीनि तैः प्रकर्षेण पुनरनुत्पत्तिरूपेण हीनो रहितः सर्वदुःखप्रहीण: स सिद्ध एव स्यात् स च देवो वा स्यान्महद्धिकः । 'अपिः सम्भावने' सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति ॥२५॥ देवानामावासान् स्वरूपं चाह
उत्तराई विमोहाइं जुईमंताणुपुव्वसो । समाइन्नाइं जक्खेहिं आवासाइं जसंसिणो ॥२६॥ दीहाउया इड्डिमंता समिद्धा कामरूविणो । अहुणोववन्नसंकासा भुज्जो अच्चिमालिप्पभा ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org