________________
पञ्चममकाममरणाध्ययनम्
२३७ व्याख्या-चीराणि वस्त्राण्यजिनं मृगादिचर्माणि 'णिगिणिणं'ति नाग्न्यं 'जडि'त्ति भावप्रधानत्वाज्जटित्वं सङ्घाटी वस्त्रसंहतिरूपा मुण्डित्वं नि:शिखत्वम् । एतान्यपि निजनिजप्रक्रियाविरचितवेषरूपाणि लिङ्गान्यपि किं पुनर्गार्हस्थ्यमित्यपेरर्थः । किमित्याहनैव त्रायन्ते भवाद् दुष्कृतकर्मणो वेति गम्यम् । कं ? दुःशीलं दुराचारं 'परियागयंति पर्यायागतं प्रव्रज्यापर्यायप्राप्तमार्षत्वाद् एकयकारलोपः । न ह्यन्तःकषायवतो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिगतिनिवारणायालम् । ततो लिङ्गधारणादिकं भिक्षूणां न गृहस्थेभ्यो वैशिष्ट्यहेतुः ॥२१॥ गृहाद्यभावेऽप्येषां कथं दर्गतिरित्याह
पिंडोलए व दुस्सीलो नरगाओ न मुच्चई ।
भिक्खाए वा गिहत्थे वा सुव्वए कम्मई दिवं ॥२२॥ व्याख्या-पिण्डमवलगति सेवते इति पिण्डावलगस्तादृशोऽपि वाशब्दस्याप्यर्थत्वात् । स्वकीयाहाराभावाद् भिक्षासेव्यप्यास्तां गृहस्थो दुःशीलो नरकात् स्वकर्मोपाजितान्न मुच्यते द्रमकवत् । तथाहि--
"वैभाराद्रितटे गतो द्रमकको भिक्षार्थमुद्यानिकाभुक्तिव्यग्रजने चिरात् कणमपि प्रापैष नातः क्रुधा । तद्धाताय शिलां मुमोच महतीं मौढ्यात् तयैवाप्तवान्,
मृत्युं श्वभ्रमपि स्वदुष्प्रणिधितो बाह्यं प्रमाणं न तत्" ॥१॥ तर्हि तत्त्वतः किं सुगतिहेतुरित्याह-'भिक्खाए वत्ति भिक्षामत्तीति भिक्षादो यतिगृहस्थो वा शोभनं निरतिचारं व्रतमस्येति सुव्रतः क्रामति गच्छति दिवं स्वर्ग व्रतस्य मुख्यतो मुक्तिहेतुत्वेऽपि जघन्यतः स्व:प्राप्तिहेतुता । उक्तञ्च
"अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो ।
सोहम्मे उववाओ भणिओ तेलुक्कदंसीहिं" ॥१॥ अतो व्रतमेव सुगतिहेतुरिति ॥२२॥ व्रतयोगान् वक्तुमाह
अगारिसामाइयंगाइं सड्डी काएण फासई । पोसहं दुहओ पक्खं एगराईं न हावए ॥२३॥
१. अविराधितश्रामण्यस्य साधोः श्रावकस्य च जघन्यः ।
सौधर्मे उपपातो भणितस्त्रैलोक्यदर्शिभिः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org