SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २३६ उत्तरज्झयणाणि-१ व्रतमन्ये त्वात्मज्ञानमेव भिक्षूणां व्रतं मन्वत इत्येषां विषमशीलताऽतोऽविकलचारित्राभावान्न सर्वेषां पण्डितमरणमिति ॥१९॥ तामेवाह संति एगेहि भिक्खूहिं गारत्था संजमुत्तरा । गारत्थेहि य सव्वेहिं साहवो संजमुत्तरा ॥२०॥ व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनिभ्यो भिक्षुभ्यो 'गारत्थ'त्ति सूत्रत्वादगारस्था गृहस्थाः संयमेन देशविरतिरूपेणोत्तराः प्रधानाः संयमोत्तराः कुप्रवचनभिक्षवो हि जीवास्तिक्यादपि बहिर्भूताः, अचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणो न संयमोत्तराः ? । अगारस्थेभ्यश्च सर्वेभ्योऽनुमतिवर्षोत्तमदेशविरतेभ्योऽपि सर्वविरताः साधवः संयमोत्तराः । अत्र श्राद्धवृत्तान्तः श्रद्धावान् श्राद्ध एकोऽभूत् सन्निवेशे क्वचित् पूरा । स साधुमन्यदाऽपृच्छत् साधुसुश्रावकान्तरम् ॥१॥ मुनिर्बभाण भो भद्र ! मेरुसर्षपयोर्यथा । अन्तरं स ततोऽप्राक्षीदाकुलः श्रावकः पुनः ॥२।। मिथ्यादृग्लिङ्गिनां तावदास्तिकानां किमन्तरम् ? । यावत् सिद्धार्थमेर्वोस्तदित्यमुं मुनिरब्रवीत् ॥३॥ ततः समाहितमनाः श्राद्धधर्मं यथोचितम् । अपालयत् तदाधिक्यं विदन् कौलिङ्गमार्गतः ॥४॥ यदुक्तम् "दैसिक्कदेसविरया समणाणं सावया सुविहियाणं । जेसिं परपासंडा सइमं पि कलं न अग्घंति" ॥१॥ तदनेन तेषां चारित्राभावात् पण्डितमरणाभाव एव ॥२०॥ ननु लिङ्गधारिभ्यः कथमगारस्थाः संयमोत्तरा इत्याह चीराजिणं णिगिणिणं जडी संघाडि मुंडिणं । एयाण वि न तायंति दुस्सीलं परियागयं ॥२१॥ १. देशैकदेशविरताः श्रमणानां श्रावका: सुविहितानाम् । येषां परपाखण्डाः शतीमपि कलां नार्हन्ति ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy