SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ पञ्चममकाममरणाध्ययनम् २३५ व्याख्या-एतदनन्तरोक्तमकाममरणं बालानामेव तुरेवार्थे प्रवेदितं प्रतिपादितमहद्गणधारिदिभिरिति गम्यम्। 'इत्तो'त्ति इतोऽनन्तरं सकाममरणं पण्डितानां शृणुताऽऽकर्णयत 'मे' मम कथयत इत्युपस्कारः ॥१७|| तदेवाह मरणं पि सपुण्णाणं जहा मे तमणुस्सुयं । विप्पसन्नमणाघायं संजयाणं वुसीमओ ॥१८॥ व्याख्या-मरणमप्यास्तां जीवितमित्यपेरर्थः सपुण्यानां पुण्यवतां किं सर्वं नेत्याहयथा येन प्रकारेण सकामत्वलक्षणेन 'मे' मम कथयत इति गम्यम् । तदिति प्राक् सूत्रोपात्तमनुश्रुतमवधारितं भवद्भिरिति शेषः । इतो सकाममरणमित्युपक्षेपस्तत्र मत्सकाशाद् यन्मरणं भवद्भिः श्रुतं तत् सपुण्यानामेव भवतीत्यर्थः । एतदेव विशिष्यते 'विप्पसन्नं' इत्यादि विविधैर्भावनादिप्रकारैः प्रसन्ना मरणेऽप्यनाकुलचित्ता विप्रसन्नास्तत्सम्बन्धिमरणमप्युपचाराद् विप्रसन्नम् । न विद्यते आघातो यतनयाऽन्येषामात्मनश्च विधिवत् संलिखिताङ्गतया यस्मिस्तदनाघातम् । केषां संयतानां चारित्रिणां 'वुसीमओ'त्ति आर्षत्वाद् वश्यान्यायत्तान्यात्मेन्द्रियाणि येषां ते वश्यवन्तस्तेषां एतादृशं च मरणमर्थात् पण्डितमरणमेव । यथा चैतत् संयतानां वश्यवतामेव विप्रसन्नमनाघातं च सम्भवति । तथा नापुण्यात्मनाम्। “अंते समाहिमरणं अभव्वज्जीवा न पावंति' त्ति वचनात् ॥१८॥ तदेवाह न इमं सव्वेसु भिक्खूसु न इमं सव्वेसु गारिसु । नानासीला अगारत्था विसमसीला हि भिक्खुणो ॥१९॥ व्याख्या-नेदं पण्डितमरणं सर्वेषु भिक्षुषु परदत्तोपजीविषु व्रतिषु । नेदं सर्वेष्वगारिषु गृहिषु चारित्रिणामेवैतत्सम्भवात् । तथात्वे च तेषामपि तत्त्वतो यतित्वात् । एतच्चोपपत्तित आह-नानाशीला अनेकविधव्रता अगारस्था गृहस्थास्तेषां नैकरूपं शीलं देशविरतिरूपस्य तस्यानेकविधत्वात् । विषमशीलाश्च विसदृशशीला भिक्षवः । न हि ते सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते जिनमतप्रतिपन्ना अपि, दूरे तीर्थान्तरीयास्तेषु गृहिणस्तावन्नानाशीला एव । यतः केचिद् गृहाश्रमप्रतिपालनमेव महाव्रतमन्ये तु सप्तशिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकधा ब्रुवते । अतो गृहस्था नानाशीलाः तथा भिक्षवोऽपि विषमशीला एव यतस्तेषु केचन पञ्चयमात्मकं व्रतमपरे कन्दमूलाशिता १. अन्ते समाधिमरणमभव्यजीवा न प्राप्नुवन्ति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy