SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २३४ उत्तरज्झयणाणि-१ पश्चादित्यायुषि हीयमाने परितप्यते। यथा धिग् मामसदनुष्ठायिनं किमिदानीं मन्दभाग्यः करोमीति शोचते ॥१३॥ तमेवार्थं दृष्टान्तेनाह जहा सागडिओ जाणं समं हिच्चा महापहं । विसमं मग्गमोइन्नो अक्खे भग्गंमि सोयई ॥१४॥ व्याख्या-यथा शाकटिको गन्त्रीवाहकः 'जाणं'ति जानन्नवबुध्यमानः सममुपलादिरहितं हित्वा त्यक्त्वा महापथं विषममुपलादिव्याप्तं मागं 'ओइन्नो'त्ति अवतीर्णो गन्तुं प्रवृत्तोऽक्षे धुरि भग्ने शोचते धिग् मम ज्ञानं यज्जानन्नपीथमपायमाप्तवानिति ॥१४॥ उपनयमाह एवं धम्मं विउक्कम्म अहम्मं पडिवज्जिया । बाले मच्चुमुहं पत्ते अक्खे भग्गे व सोयई ॥१५॥ व्याख्या-एवमिति शाकटिकवद धर्मं क्षान्त्यादिरूपं 'विउक्कम्म'त्ति व्यत्क्रम्योलद्ध्याधर्मं हिंसादिकं प्रतिपद्याङ्गीकृत्य बालोऽज्ञो मृत्युमुखप्राप्तोऽक्षे भग्न इव शोचते । हा! किमेतन्मयाऽनुष्ठितमिति ॥१५॥ ततः किमसौ करोतीत्याह तओ से मरणंतंमि बाले संतसई भया । अकाममरणं मरई धुत्ते वा कलिणा जिए ॥१६॥ व्याख्या-ततः शोचनान्तरं 'से'त्ति स मरणान्ते उपस्थिते इति योज्यं रागाद्याकुलितचित्तः सन्त्रस्यति बिभेति कुतो भयान्नरकादिगतिगमनरूपात् । स चैवं किं स्यादित्याह-अकाममनिच्छतो मरणमकाममरणं तेन 'अत्रार्षत्वाद् द्वितीया' म्रियते क इव धूर्त इव द्यूतकार इव । वा इवार्थे कलिनैकेन प्रक्रमात् तद्दायेन जितो यथा ह्ययमेकेन दायेन जितस्सन्नात्मानं शोचयति । तथाऽयमपि विपाककटुभिर्मनुजभोगैर्दिव्यसुखं हारितः शोचंश्च म्रियते ॥१६॥ निगमयितुमाह एयं अकाममरणं बालाणं तु पवेइयं । इत्तो सकाममरणं पंडियाणं सुणेहि मे ॥१७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy