________________
पञ्चममकाममरणाध्ययनम्
२३३ अमुमेवार्थं व्यक्तुमाह
तओ पुट्ठो आयंकेणं गिलाणो परितप्पई ।
पभीओ परलोगस्स कम्माणुप्पेही अप्पणो ॥११॥ व्याख्या-ततो दण्डारम्भाधुपार्जितमलतः स्पृष्ट आतङ्केनाशुघातिशूलादिरोगेण ग्लानो मन्दः परितप्यते बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षेण त्रस्तः कुतः ‘परलोगस्स'त्ति परलोकात् 'सुब्ब्यत्ययात् पञ्चम्यर्थे षष्ठी' यत इति गम्यम् । कर्म हिंसाऽलीकभाषणादिक्रियामनुप्रेक्ष्यत इत्येवंशीलः कर्मानुप्रेक्षी कस्यात्मनः । को भावः ? स हि न किञ्चिन्मया शुभमाचरितं किन्त्वजरामरवच्चेष्टितमिति चिन्तयन्नित्यातङ्काच्चेतसि खिद्यते । भवति हि विषयव्याप्तचेतसोऽपि प्रायः प्राणात्ययेऽनुतापस्तथोक्तम्
"भवित्री भूतानां परिणतिमनालोच्य नियतां पुरा यद् यत् किञ्चिद् विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने
तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम्" ॥१॥॥११।। एतदेव स्पष्टयन्नाह
सुया मे नरए ठाणा असीलाणं च जा गई ।
बालाणं करकम्माणं पगाढा जत्थ वेयणा ॥१२॥ व्याख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भी-वैतरिण्यसिपत्रवनादीनि अशीलानामसदाचाराणां च या गतिर्नरकात्मिका साऽपि श्रुतेति योगः । तथा बालानामज्ञानां क्रूरकर्मणां हिंस्रमृषाभाषकादीनां प्रगाढाऽत्युत्कटतया प्रकर्षवत्यो यत्र यस्यां गतौ वेदनाः शीतोष्णादयो वर्तन्ते सैवेदृशी गतिर्ममाप्येवंविधानुष्ठानकर्तुरिति भावः ॥१२॥ तथा
तत्थोववाइयं ठाणं जहा मे तमणुस्सुयं ।
अहाकम्मेहिं गच्छंतो सो पच्छा परितप्पई ॥१३॥ व्याख्या-तत्र नरकेष्वुपपाते भवमौपपातिकं स्थानं स्थितिर्यथा स्याद् इति शेषः । 'मे' मया तदित्यनन्तरोक्तमनुश्रुतमवधारितं गुरुभ्य इति शेषः, औपपातिकमित्यनेनास्यायं भावो यदि गर्भजत्वं स्यात्, स्यादपि तदवस्थायां छेधभेदादिनारकदुःखान्तरमौपपातिकत्वे त्वन्तर्मुहूर्त्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भवः । तथा यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैस्तीव्रतीव्रतराद्यनुभावोपेतैः कर्मभिस्तदनुरूपमेव स्थानं गच्छन् सन् स बालः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org