________________
२३२
उत्तरज्झयणाणि-१ "अट्टमट्ट पि सिक्खिज्जा सिक्खियं न निरत्थयं । अट्टमट्टप्पसाएण खज्जए गुडतुंबयं" ॥१३॥ आसीद् वटदलच्छेदे तस्य दण्डो ह्यनर्थकः ।
सार्थकश्चाक्षिपातेऽभूदेवं दण्डो द्विधा भवेत् ॥१४॥ एवमनर्थदण्डं चारभमाणः स किं कुरुते इत्याह-भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति ॥८॥ स किं पुनरन्यदपि करोतीत्याह
हिंसे बाले मुसावाई माइल्ले पिसुणे सढे ।
भुंजमाणे सुरं मंसं सेअमेयं ति मन्नई ॥९॥ व्याख्या–हिंस्रो हिंसनशीलोऽत एव बालोऽज्ञो मृषावादी अलीकभाषक: 'माइल्ले'त्ति मायी परवञ्चकः पिशुनः परदोषोद्घाटकः शठो नेपथ्यादिकरणतोऽन्यथाभूतं स्वमन्यथा दर्शयति मण्डिकचौरवत् । अत एव न भुञ्जानः सुरां मांसं श्रेयः प्रशस्यमेतदिति मन्यते उपलक्षणाद् भाषते च-"न मांसभक्षणे दोषो न मद्ये न च मैथुने" इत्याद्यनेन मनोवाक्कायैरसत्यतोक्तेति ।।९।। पुनस्तदेवाह
कायसा वयसा मत्ते वित्ते गिद्धे य इत्थिसु ।
दुहओ मलं संचिणई सिसुनागो व्व मट्टियं ॥१०॥ व्याख्या-'कायस'त्ति सूत्रत्वात् कायेन वचसोपलक्षणान्मनसा च मत्तो दपिष्ठस्तत्र कायमत्तो मदान्धगजवद् बलवत्तया यतस्ततः प्रवृत्तिमान्, वचसा स्वगुणान् ख्यापयन्, मनसा चाहो ! अहमवधारणाशक्तिमानिति मदामातचेतः । वित्ते द्रव्ये गृद्धो लुब्ध इत्यदत्तादानपरिग्रहोपलक्षणं तद्भावभावित्वात् तयोश्च पुनः स्त्रीषु गृद्ध इत्यनेन मैथुनासेवित्वमुक्तम् । तदभिरतिमांश्च मैथुनासेव्येव स्यात् । स किं करोतीत्याह-'दुहओ'त्ति द्विधा द्वाभ्यां रागद्वेषरूपाभ्यां बहिरन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति बध्नाति कः कामिवेत्याह-शिशुनाग इवालसजीव इव मृत्तिकां स हि स्निग्धाङ्गत्वेन बही रजोभिरवगुण्ड्यते । तदेव चाश्नात्येवं बहिरन्तश्च द्विधाप्युपचितमलो रविकरस्पर्शाच्छुष्यन्निहैव विनश्यति । तथायमप्युपचितमलो दुष्कर्मवशादिहैव विनाशं यातीति भावः ॥१०॥
१. अट्टमट्टमपि शिक्षेत शिक्षितं न निरर्थकम् ।
अट्टमट्टप्रसादेन खाद्यते गुडतुम्बकम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org