________________
पञ्चममकाममरणाध्ययनम्
प्रवर्त्तयति । त्रसेषु द्वीन्द्रियादिषु स्थावरेषु च पृथिव्यादिषु । अर्थाय वित्तावाप्त्यादिप्रयोजनाय चशब्दाद् अनर्थाय यन्नात्मनः सुहृदादेर्वोपयुज्यते । एवमपि कश्चिद् दण्डं समारभते पशुपालवत् । तथाहि
इतश्च
कोऽप्यजापालको ग्रामे मध्याह्ने प्रत्यहं बहिः । अधोन्यग्रोधमुत्तानः प्रसुप्तश्चारयन्नजाः ॥१॥ लघुना धनुषा क्षिप्त्वा कर्करान् छिद्रयन्नसौ । वटपत्राणि सच्छिद्राखिलपत्रं चकार तम् ॥२॥
दायादैभ्रंशितो राज्यात् कोऽपि राजसुतस्तदा । गच्छंस्तेन पथाऽपश्यत् सच्छिद्रवटमद्भुतम् ॥३॥ पशुपालं ततोऽपृच्छद् दक्षः कोऽमुमरन्ध्रयत् । सोऽभ्यधात् क्रीडयाऽकार्षमहमेतत् सुदुष्करम् ॥४॥ अस्मै राजसुतो दत्त्वा बहुद्रव्यं प्रलोभ्य तम् । अवादीद् यदहं वक्ता तत् करिष्यासि चेच्छृणु ॥५॥ किलैकोऽस्ति विपक्षो मे तस्योत्पाटय लोचने । सोऽवग् नय तदभ्यासं नीतस्तेनैष पत्तनम् ॥६॥ तस्यैव राजपुत्रस्य भ्राता तत्रास्ति भूपतिः । स गच्छति पथा येनोपतच्छन्नः स रक्षितः ||७|| तेनापि गच्छतस्तस्य गोलाभ्यां लघु चक्षुषी । अपात्येतामलक्ष्येण किमकृत्यं दुरात्मनाम् ? ॥८॥ राजपुत्रोऽभवद् राजा स तत्र तमथाभ्यधात् । ब्रूहि ते किं प्रयच्छामि तमेव ग्राममार्थयत् ॥९॥ दत्तवांस्तं नृपोऽप्यस्मै तत्र गत्वा तदन्तिके । कर्षुकैरुचितक्षेत्रे इक्षुवाटमकारयत् ॥१०॥ तद्वृतौ तुम्बकलता नियोगिभिरवापयत् । निष्पत्तौ तौम्बकं शाकं गुडयुक्तमपाचयत् ॥११॥ बुभुजेऽथ स तं शाकं रसगृद्धो निरन्तरम् । भोजं भोजं विचाले हि श्लोकमेनं पपाठ च ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
२३१
www.jainelibrary.org