SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३० उत्तरज्झयणाणि-१ भाषणादि वाऽऽसेवते, कैश्चित् प्रेरितश्च वक्ति 'न मे' त्ति न मया दृष्टः परो लोकश्चक्षुदृष्टा प्रत्यक्षेत्यर्थः, इयं रतिविषयभोगजनिता चित्तप्रह्लत्तिस्तस्यायमाशय:-कथं दृष्टपरित्यागाददृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्भेयेति ।।५।। पुनस्तदाशयमाह हत्थागया इमे कामा कालिया जे अणागया । को जाणइ परे लोए अत्थि वा नत्थि वा पुणो ॥६॥ व्याख्या-हस्तगता इव हस्तगताः स्वाधीनतया हस्तप्राप्ताः । इमे प्रत्यक्षोपलभ्यमानाः कामाः शब्दादयः काले भवाः कालिका अनिश्चितकालान्तरप्राप्तयो येऽनागता भाविजन्मसम्बन्धिनः कथमनिश्चितप्राप्तयोऽमी इत्याह-पुनः शब्दस्येह सम्बन्धनात् कः पुनर्जानाति न कश्चिद् यथा परलोकोऽस्ति नास्ति वा सन्दिग्धे हि परलोके क इव हस्तगतान् कामांस्त्यक्त्वाऽनागतकामार्थं यतेतेति भावः ॥६॥ अन्यस्तु कामांस्त्यक्तुमशक्नुवन्निदमाह जणेण सद्धि हुक्खामि इइ बाले पगब्भई । कामभोगाणुराएण केसं संपडिवज्जई ॥७॥ व्याख्या-जनेन सार्धं लोकेन सह भविष्यामि बहुजनो भोगी तदहमपि तद्गतिं गमिष्यामीति भावः । इत्येवं बालोऽज्ञः प्रगल्भते धाष्टर्थमवलम्बतेऽलीकवाचालतया स्वयं नष्टः परानपि नाशयति, न विवेचयति यथा-किमुन्नार्गप्रवृत्तेन बहुनाऽप्यविवेकिजनेन मम विवेकिनः प्रमाणीकृतेन, स्वकृतकर्मफलभुजो हि जीवाः स चैवं कामभोगानुरागेण क्लेशमिह परत्र च नानाबाधारूपं सम्प्रतिपद्यते प्राप्नोतीत्युक्तं च "वर विसु अँजिओ मा विसय एक्कसि विसिणि मरंति । नर विसयामिसमोहिया बहुसो नरइ पडंति" ॥१॥ यथा स कामानुरागात् स्यात् तथाऽऽह तओ से दंडं समारभई तसेसु थावरेसु य । अट्ठाए य अणट्ठाए भूयगामं विहिंसई ॥८॥ व्याख्या-ततः कामानुरागात् स धाष्टर्यवान् दण्डं मनोदण्डादि समारभते १. वरं विषं भुक्तं मा विषया एकस्मिन् विषेण नियन्ते । नरा विषयामिषमोहिता बहुशो नरके पतन्ति ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy