________________
पञ्चममकाममरणाध्ययनम्
२२९ व्याख्या-बालानां सदसद्विवेकविकलानां 'तुः 'एवार्थे अकाममेव मरणमसकृद् वारं वारं स्यात्, ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते । तत एव च भवं पुनः पुनर्भमन्ति । पण्डितानां चारित्रवतां सकाममिव सकामं साभिलाषं मरणम् । तेषां तदसन् त्रस्तत्वेनोत्सवभूतत्वाच्च । तथा च वाचकः
__ "सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम् ।
उत्सवभूतं मन्ये मरणमनपराधवृत्तीनाम्" ॥१॥ न तु तत्त्वतस्तेषां सकामत्वम्, मरणाभिलाषस्यापि निषिद्धत्वात् । यत उक्तम्
"मा मा हु विचिंतिज्जा जीवामि चिरं मरामि य लहुं ति ।
जइ इच्छसि तरिउं जे संसारमहोयहिमपारं' ॥१॥ 'तुः' विशेषार्थः तच्चोत्कर्षेणत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः । अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि तत एव मुक्तिः स्यात् । केवलिनस्तु तदपि नेच्छन्त्यास्तां भवजीवितमिति तन्मरणस्योत्कर्षेण सकामता सकृदेवकवारमेव स्याद्, जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदिति भावः ॥३॥ आद्यं स्थानमाह
तत्थिमं पढमं ठाणं महावीरेण देसियं ।
कामगिद्धे जहा बाले भिसं कूराइं कुव्वई ॥४॥ व्याख्या-तत्र तयोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण देशितं प्ररूपितम् । किं तदित्याह-कामेष्विच्छा-मदनात्मकेषु गृद्धः काङ्क्षावान् काम-गृद्धो यथा बालो विवेकविकलो भृशमत्यर्थं क्रूराणि हिंसादीनि करोति शक्तावशक्तावपि क्रूरत्वेन तन्दुलमत्स्यवन्मनसा तानि कृत्वा प्रस्तावादकाम एव म्रियत इति ॥४॥ इदमेव प्रपञ्चयितुमाह
जे गिद्धे कामभोगेसु एगे कूडाय गच्छई ।
न मे दिढे परे लोए चक्खुदिट्ठा इमा रई ॥५॥ व्याख्या-यो गृद्धः कामभोगेषु कामौ शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धाख्यास्तेष्वेकः कश्चित् क्रूरकर्मा कूटं द्रव्यतो मृगादिबन्धनं भावतो मिथ्याभाषणादि तस्मै कूटाय गच्छत्यनेकार्थत्वात् प्रवर्त्तते । स हि मांसलोलुपतया मृगबन्धनाद्यारभते मिथ्या
१. मा मा खलु विचिन्तयेः जीवामि चिरं म्रिये च लब्धिति ।
यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org