________________
२२८
उत्तरज्झयणाणि-१ अत्र प्रत्याख्यानशब्देन भक्तपरिज्ञैवोक्ता । इत्युक्तः समासतो मरणविभागो विस्तरविशेषार्थस्तु बृहट्टीकातोऽवसेयः ।
"एत्थं पुण अहिगारो नायव्वो होइ मणुयमरणेणं ।
मोत्तुं अकाममरणं सकाममरणेण मरियव्वं" ॥१॥ अतः सूत्रं व्याख्यायते
अण्णवंसि महोहंसि एगे तिन्ने दुरुत्तरं ।
तत्थ एगे महापन्ने इमं पण्हमुदाहरे ॥१॥ व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया संसारस्तस्मिन् । महानोघः प्रवाहो भवपरम्परात्मको यस्मिन् स तत्र । एको रागादिरहितो गौतमादिस्तीर्ण इव तीर्णः, अमुक्तोऽपि पारप्राप्त इव वर्तते 'तरइ'त्ति पाठे तु तरति पारमाप्नोति सुब्ब्यत्ययाद् दुरुत्तरे दुःखेनोत्तरीतुं शक्ये गुरुकर्मणाम् । तत्र गौतमादौ तरणप्रवृत्ते एकोऽद्वितीयस्तीर्थकृन्नामकर्मोदयात् तीर्थकरः स ह्येकदैक एव भरते भवतीति भावः । महती निरावरणतया गुर्वी प्रज्ञा केवलज्ञानरूपा यस्य स महाप्रज्ञ इममनन्तरं वक्ष्यमाणं प्रश्न प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवान् ॥१॥ तदेवाह
संतिमे अ दुवे ठाणा अक्खाया मारणंतिया ।
अकाममरणं चेव सकाममरणं तहा ॥२॥ व्याख्या-संतीति वचनव्यत्ययेन स्तो विद्यते इमे प्रत्यक्षे 'चः परणे' द्वे द्विसंख्ये तिष्ठन्त्यनयोर्जीवा इति स्थाने आख्याते अर्हद्गणभृदादिभिः कथिते मारणान्तिके मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके ते एव नामत आहअकाममरणं वक्ष्यमाणस्वरूपं 'चः समुच्चये, एवेति पूरणे' सकाममरणं वक्ष्यमाणं तथा
॥२॥
केषां पुनरिदं कियत्कालं वेत्याह
बालाण य अकामं तु मरणं असयं भवे । पंडियाणं सकामं तु उक्कोसेण सयं भवे ॥३॥
१. अत्र पुनरधिकारो ज्ञातव्यो भवति मनुजमरणेन ।
मुक्त्वाऽकाममरणं सकाममरणेन मर्तव्यम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org