________________
२२६
उत्तरज्झयणाणि-१ स्निग्धदीपशिखावलोकनाकुलितपतङ्गवन्मियन्ते, तेषां वशार्तमरणम् । ये लज्जयाऽनुचितानुष्ठानसंवरणाऽऽत्मिकया सातादिगौरवत्रयेण च बहुश्रुतमदेन वा दर्शनादिषु शङ्कादिविषयं स्वातिचारमालोचनार्हाऽऽचार्यादेर्नालोचयन्ति तेषामन्तःशल्यमिवान्तःशल्यमरणं तेषां चानन्तसंसारभ्रमणमेव फलम् । यत् केषाञ्चित् सङ्ख्येयवर्षायुषां कर्मभूमिजानां, तेषां हि ततो देवेष्वेवोत्पादात्, नापि देवानां नैरयिकाणां च तेषां तिर्यङ्मनुष्येष्वेवोत्पादात् । तथा अविरतानां हिंसादिविरतिरहितानां मिथ्यादृशां सम्यग्दृशां वा मरणं बालमरणम् । तथा विरतानां सर्वसावद्यनिवृत्तानां पण्डितमरणम् । देशविरतानां स्थूलप्राणातिपातादिविरतानां बालपण्डितभावेन मिश्रमरणम् । एवं बालादिमरणत्रयं चरणद्वारेणोक्तम् । मनःपर्यायावधिश्रुतमतिज्ञानिनां छद्मस्थमरणं विशुद्धचारित्रिणामेवोत्पत्तेः प्राङ् मनःपर्यायग्रहणं । केवलिनां केवलिमरणं । छद्मस्थादिद्वयं ज्ञानद्वारेण ज्ञेयम् । वृक्षशाखादावुदूर्ध्वं बन्धनमुद्वन्धनं तस्मात्, तरु-गिरि-भृगुपातादेर्वाऽऽत्मनैवात्मजनितं मरणं 'वेहायसं'ति विहायसि भवत्वाद् वैहायसमरणम् । गृध्राणां पक्षिविशेषाणां शिवादीनां वा भक्ष्यं पृष्ठमुपलक्षणादुदरादि च मर्तुर्यस्मिन् गृध्रादिभिरात्मानं पृष्ठादौ भक्षयतीति वा गृध्रपृष्टं मरणम् । एते द्वे मरणे आत्मोपघातकत्वात् कारणे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृताचार्यवदनुज्ञाते न तु निष्कारणे । यत उक्तम्
"भावियजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो ।
अप्पाणंमि परंमि य तो वज्जे पीडमुभओ वि" ॥१॥ "पाओवगमं भणियं समविसमो पायवो व्व जह पडिओ ।
नवरं परप्पओगा कंपेज्ज जहा फलतरु व्व" ॥१॥ १. भावितजिनवचनानां ममत्वरहितानां नास्ति खलु विशेषः ।
आत्मनि परस्मिश्च ततो वर्जयेत् पीडामुभयोरपि ॥१॥ अत एव भक्तपरिज्ञाऽऽदिषु पीडापरिहाराय संलेखनाविधिरुक्तः स च श्रुतादवसेयः । भक्तं भोजनं तस्य परिज्ञा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया चाशनादिचतुर्विधाहारस्य त्रिविधाहारस्य बाह्याभ्यन्तरोपधेश्च यावज्जीवं परित्यागात्मकं प्रत्याख्यानं स प्रतिकर्मभक्तपरिज्ञामरणम् । इङ्ग्यते चेष्ट्यते नियतप्रदेशे एवास्यामनशनक्रियायामितीङ्गिनी तदुपलक्षितं चतुर्विधाहारान्यकृतोद्वर्त्तनादिपरिकर्मत्यागरूपमिङ्गिनीमरणम्। पादपं वृक्षमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनम्। यथा पादपः कथञ्चित् क्वचित् समविषमप्रदेशे पतितो निश्चलमेवाऽऽस्ते तथाऽयमपि भगवानेतदनशनकर्ता समविषमपतितमङ्गमुपाङ्गं च न चालयत्यत एव निश्चलनिष्प्रतिकर्मतया पादपोपगमनं मरणमुक्तं च
२. पादपोपगमो भणित: सम-विषमे पादप इव यथा पतितः ।
नवरं परप्रयोगात् कम्पेत यथा फलतरुरिव ॥१॥ निश्चलनिष्प्रतिकर्मा निक्षिपति यद् यस्मिन् यथाऽङ्गम् । एतत् पादपोपगमनं नीहारि वाऽनीहारि ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org