________________
पञ्चममकाममरणाध्ययनम्
इह पूर्वाध्ययने मरणं यावदप्रमाद उक्तः । स च मरणविभागावगमादेव स्यात् ततो बालमरणादि हीयते पण्डितमरणाधुपादीयते तथा चाप्रमत्तता स्यादित्यनेन सम्बन्धे-- नाऽऽयातमिदमकाममरणीयाध्ययनमारभ्यते । तत्र च सप्तदशमरणप्रकारप्रतिपादिका नियुक्तिगाथा:
"आवीइ ओहि अंतिय वलायमरणं वेसट्टमरणं च । अंतोसल्लं तब्भव बालं तह पेंडियं मीसं ॥१॥ उमत्थमरण कैवलि वैहायस गिद्धपिट्ठमरणं च ।
भैरणं भत्तपरिन्ना इंगिणी पाओवगमणं च" ॥२॥ व्याख्या-तत्र वीचिविच्छेदस्तदभावादवीचिस्तेन मरणमवीचिमरणं तत् पञ्चधा द्रव्यक्षेत्र-काल-भव-भावभेदात् । तत्र यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायु:कर्मदलिकानामनुसमयमनुभवनाद् विचटनं तद् द्रव्यावीचिमरणं तच्च नारकादिगतिचातुर्विध्याच्चतुर्विधमेवं नरकादि चतुर्गतिविषयक्षेत्रप्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्थैव । देवादिष्वद्धाकालस्यासम्भवाद् देवाऽऽयुष्ककालादिचतुर्भेदप्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधमेवं देवादिचतुर्विधभवापेक्षया भवाऽऽवीचिमरणं चतुर्द्धा तथा देवादीनां चतुर्विधायुःक्षयलक्षणभावप्राधान्यापेक्षया भावावीचिमरणमपि चतुर्कैवेति । अवधिर्मर्यादा तेन यानि नरकादिभवहेतुतयाऽऽयुकर्म दलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् द्रव्यावधिमरणम् । सम्भवति हि गृहितोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिषु चतुर्ध्वपि भाव्यम् । यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते न पुनस्तान्यनुभूय मरिष्यति, तद् द्रव्यात्यन्तिकमरणमेवं क्षेत्रादिष्वपि वाच्यम् । तथाऽऽवीच्यवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादिभेदानां नरकादिगतिचतुर्विधत्वाद् विंशतिभेदानीति । ये संयमयोगेषु विषण्णास्तपश्चरणादिव्रतमाचरितुं मोक्तुं चाप्यक्षमा भग्नव्रतपरिणामा वलन्त: संयमान्निवर्तमाना म्रियन्ते तेषां वलन्मरणम् । ये इन्द्रियविषयवशगताः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org