________________
२२०
उत्तरज्झयणाणि-१ व्याख्या—यः पूर्वमेवाप्रमत्तो न स्यात् स एवमितीवार्थत्वात् पूर्वमिवान्त्यकालात् प्राक्काल इव छन्दोनिरोधमप्रमत्ततारूपं न लभते नाप्नुयात् पश्चादन्त्यकालेऽपि । एषोपमा ज्ञानात्मिका सम्प्रधारणा यदुत पश्चाद् धर्मं करिष्याम इति शाश्वतवादिनां निरुपक्रमायुषां ये तथा शाश्वतमिवात्मानं मन्यन्ते तेषामियं युज्येतापि न तु क्षणनश्वरायुषाम् । तथाऽसौ पश्चादपि छन्दोनिरोधमनाप्नुवन् विषीदति । हा ! कथमकृतसुकृतोऽहं परत्र स्यामिति दैन्यमनुभवति । कदा ? शिथिले आत्मप्रदेशान् मुञ्चति आयुषि, कालेन मृत्युनोपनीते ढौकिते क्वेत्याह-शरीरस्य भेदे सर्वपरिसाटतः पृथग्भावे । यदुक्तम्
"एक्कं पि जस्स सुकयं नत्थि हु तव-नियम-संजमाईणं ।
को नाम दढक्कारो मरणंते तस्स मणुयस्स" ॥१॥" । तस्मादादित एवाप्रमादवद्भिर्भाव्यं येनान्त्यसमयेऽपि न विषादः स्यादुक्तं च
"केत्तो चिंता सुचरियतवस्स गुणसुट्ठियस्स साहुस्स ।
सुग्गइगमपरिहत्थो जो अच्छइ नियमभरियभरो" ॥१॥॥९॥ किं पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते इत्याहखिप्पं न सक्केइ विवेगमेउं तम्हा समुट्ठाय पहाय कामे । समिच्च लोगं समया महेसी अप्पाणरक्खी व चरमप्पमत्तो ॥१०॥
व्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं भावतः कषायत्यागात्मकमेतुं गन्तुं न ह्यकृतपरिकर्मा प्राक् तत्परित्यागं कर्तुमलं ब्राह्मणीवत् । तथाहि
भूदेवोऽभूत् क्वचिद् ग्रामेऽभ्यस्तविद्यो धनी कनीम् । विप्रस्य व्यूढवान् साऽस्थात् सदाऽलङ्कारधारिणी ॥१॥ पत्योचे पर्यधाः पर्वस्वेतांस्त्वं नित्यमण्डिता । मा स्थाः गोप्या यथा स्युस्ते स्तेनाद् रोहावरोहतः ॥२॥ तया तद्वागवज्ञाताऽन्यदा ग्राम्यान् विलुण्टितुम् । प्रदुष्टा दस्यवस्तत्र पेतुरेकस्तु तस्करः ॥३॥
१. एकमपि यस्य सुकृतं नास्ति खलु तपो-नियम-संयमादीनाम् ।
को नाम दृढकारो मरणान्ते तस्य मनुजस्य ? ॥१॥ २. कुतश्चिन्ता सुचरिततपसो गुणसुस्थितस्य साधोः ? ।
सुगतिगमप्रतिहस्तो य आस्ते नियमभृतभरः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org