________________
चतुर्थमसंस्कृताख्यमध्ययनम्
"णीणस्स होइ भागी थिरयरओ दंसणे चरित्ते य ।
धन्ना आवकहाए गुरुकुलवासं न मुंचंति" ॥१॥
अश्वो यथा शिक्षितो वल्गनधावनादिशिक्षां ग्राहितो वर्मधारी कवचधारी पदद्वये कर्मधारयः । ततोऽयमर्थो यथाऽश्वः स्वातन्त्र्यविरहाच्छिक्षकतन्त्रतया प्रवर्त्तमानो रणे वैरिभिर्नोपहन्यते तन्मुक्ति चाप्नोति स्वतन्त्रस्तु प्रागशिक्षितो रणे तैर्हन्यतेऽतो यतिना परतन्त्रेणैव भाव्यम् । अत्रार्थे दृष्टान्तः—
द्वावेकेन नृपेणाश्वावर्पितौ कुलपुत्रयोः । शिक्षणीयौ पोषणीयाविमौ सम्यगतिप्रियौ ॥१॥
कालोचितेन तत्राद्यो योग्यान्नेन यवादिना । तं पोषयन् धावनाद्याः कला आश्वीरशिक्षयत् ॥२॥ घरट्टे वाहयित्वाऽस्मै परो यवतुषानदात् । बुभुजे तु स्वयं सारमन्यदाऽथ रणक्षणे ॥३॥ भूपेनाभिहितावेतौ समारुह्याश्वयोस्तयोः । आगच्छतं द्रुतं युद्धे तावप्याजग्मतुस्ततः ॥४॥ राजादेशाद्धयारूढाववगाढौ रणाम्बुधिम् । आद्यः शिक्षावशादश्वोऽभवत् सङ्ग्रामपारगः ॥५॥ अपरस्तु तथाऽभ्यासादगृह्यत युधि भ्रमन् । परैर्विसारथीकृत्य लेभे च विजयं न सः ॥६॥ एवं सुशिक्षितः साधुः स्वातन्त्र्यं परिवर्जयन् । कर्मशत्रुगणं भित्त्वा मुक्तिमाप्नोति लीलया ॥७॥ इति शिक्षायामश्वद्वयकथा ॥
अयं भावो-यथाऽश्वस्तथा धर्मार्थ्यपि स्वातन्त्र्यरहितो मुक्तिमाप्नोति, अत एव पूर्वाण्युक्तमानानि वर्षाणि चर श्रुतोक्तक्रियां सेवस्वाप्रमत्तः प्रमादरहितः यतस्तस्मादप्रमादादेव मुनिः प्रमुपैति गच्छति मोक्षम् । एतदायुषामेव चारित्रसम्भवादिह पूर्वाणीत्युक्तम् ॥८॥ नन्वयं छन्दोनिरोधोऽन्तकाल एव क्रियातामित्याशङ्क्याह— स पुव्वमेवं न लभेज्ज पच्छा एसोवमा सासयवाइयाणं । विसीयई सिढिले आउयंमि कालोवणीए सरीरस्स भेए ॥ ९ ॥
१. ज्ञानस्य भवति भागी स्थिरतारतो दर्शने चरित्रे च ।
धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १॥
२१९
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org