________________
२१६
विपद्यते स तत्रैव ते तेनैवमनेकशः । पत्तनं मुष्णता व्यापादिता रात्रौ दुरात्मना ||७|| ग्रहीतुं शक्यते नैष दक्षैरप्यधिकारिभिः । सम्भूय नागरा भेजुर्नृपं प्राञ्जलयोऽवदन् ॥८॥ अद्य श्वो वा निवृतिः स्याद् विघ्नस्येति किलाशया । प्रभुपादा न विज्ञप्ता एतावन्तमनेहसम् ||९|| मुषितं पुरसर्वस्वं न किञ्चिदवशिष्यते । इत्युद्विग्नोऽखिलः पौरो जनोऽयं त्वामुपस्थितः ॥१०॥ राजन् ! केनाप्युपायेन निगृहाण मलिम्लुचम् । अथादिश जनाः सन्तु सुखिनोऽन्यपुरं गताः ॥११॥ दिनसप्तकमादाय जनादारक्षकं परम् । अस्थापयद् न सोऽप्यापच्चौरं यत्नशतैरपि ॥ १२ ॥ तृतीयदिवसे मूलदेवो नीलपटावृतः । अविज्ञाताकृतिः क्वापि रात्रौ नगरमभ्रमत् ॥१३॥ श्रान्तः क्वचिद् देवकुले निषण्णश्चिन्तयाऽऽतुरः । तावत् स मण्डिकञ्चौरः समागत्य बभाण तम् ||१४|| रे ! कोऽस्त्यत्र नृपोऽभाणीदस्मि कार्पटिको जनः । कुर्वे मनुष्यमुत्तिष्ठोत्तिष्ठाऽऽगच्छ मया सह ॥ १५ ॥ उत्थाय मूलदेवोऽगात् सहानेन स चैश्वरे । मन्दिरे क्षात्रमुत्खन्याग्रहीद् द्रव्यं ततो बहु ॥ १६॥ ग्रन्थि कृत्वा मूलदेवशिरस्यारोप्य तं पुरः । कृत्वोत्कोशकृपाणोऽसौ गतो भूमिगृहं क्रमात् ॥ १७॥ द्रव्यं क्षेप्तुं भुवं चौरोऽखनद् भग्नीमुवाच च । प्राघूर्णकस्य पाच्छौचं देहि साऽपि न्यवीविशत् ॥१८॥
कूपोपकण्ठविन्यस्ताऽऽसने दक्षं धराधवम् । विधाता किमियं तावत् पश्यामीति सकौतुकम् ॥१९॥ क्षिपाम्यवट इत्येनं शौचदम्भात् पदेऽग्रहीत् । दध्यौ वीक्ष्य पदौ बाला सुकोमलसुलक्षणौ ॥२०॥ कुलकम्
Jain Education International 2010_02
उत्तरज्झयणाणि - १
For Private & Personal Use Only
www.jainelibrary.org