SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् २१५ कुर्यादित्याह - लाभान्तरे पूर्वज्ञानाद्यर्थप्राप्तिविशेषे सति जीवितं प्राणधारणरूपं बृंहयित्वा - ऽपायरक्षणान्नपानादिभिर्वृद्धिं नीत्वा पश्चाल्लाभविशेषप्राप्त्यनन्तरं परिज्ञाय यथेदं नेदानीं जराव्याध्यादिभिस्तद्गुणार्जनक्षमम् । उक्तं हि— "जरा जाव न पीडेड़ वाही जाव न वड्डूई । जाविंदिया न हायंति ताव धम्मं समायरे " ॥१॥ एवं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय भक्तं मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः । ततो यावल्लाभं देहधारणमपि गुणायैवेति भावः । यदाह— 'सेव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई" ॥१॥ इह च मण्डिकचौरदृष्टान्तो यथा— बेनातटे पुरे राज्ञि मूलदेवे प्रतापिनि । मण्डिकाख्यस्तन्तुवायः सर्वचौरशिरोमणिः ॥१॥ दिवा जनप्रत्ययार्थं दुष्टस्फोटोऽयमुत्थितः । इति प्रकाश्य सक्थ्येष पट्टं बध्वाऽविशत् पथि ॥२॥ लोकान् स्फोटप्रतीकारं पृच्छन्नथ सुनिःश्वसन् । उपजीवति शिल्पेन तन्तुवायोचितेन सः ॥३॥ व्रजन् दण्डावलम्बेन कथञ्चित् क्रमते शनैः । रात्रौ तु क्षात्रपातेन मुष्णाति सकलं पुरम् ॥४॥ तच्च द्रव्यं पुरासन्ने वनोद्देशे गिरेस्तटे । नयेद् भूमिगृहं भारवाहकेन स तस्करः ||५|| कन्याऽस्य भगिनी तत्र पादशौचच्छलेन तम् । आकृष्य पादयोर्मुग्धमन्धकूपे क्षिपेद् द्रुतम् ॥६॥ १. जरा यावन्न पीडयति व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते तावद् धर्म समाचरेत् ॥१॥ २. सर्वत्र संयमं संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशोधिर्न चाविरतिः ॥१॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy