________________
२१४
उत्तरज्झयणाणि-१ "सुयइ सुयतस्स सुयं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं थिरपरिचियमप्पमत्तस्स" ॥९॥ इति ज्ञात्वा सभालोकः सन्तुष्टश्चरमं जिनम् ।
नत्वा निजगृहं गत्वा बुद्धजीव्यभवत्तराम् ॥१०॥ प्रतिबुद्धजीवी सन् किं कुर्यादित्याह-न विश्वसेत् प्रमादेषु पण्डितो विद्वान् आशु शीघ्रमुचितकृत्येषु प्रज्ञाऽस्येत्याशुप्रज्ञः । यतो घोरा निरनुकम्पाः शश्वत् प्राणापहारित्वात् मुहूर्ताः कालविशेषा दिवसाधुपलक्षणम् । उक्तं च
"अणुदियहं वच्चंता इमाइं मूढो जणो न लक्खेइ ।
जीवस्स जोव्वणस्स य दिवसनिसाषंडपंडाइं" ॥१॥ अबलं मृत्युदायिनो मुहूर्तान् प्रति बलरहितं शरीरम् । यतः
"सत्थ-ग्गी-जल-सावय-विसूइया-वाहि-अहि-विसाईहिं ।
जज्जरमिणं सरीरं उवक्कमेहिं बहुविहेहिं" ॥२॥ एवं तर्हि किं कृत्यमित्याह-भारुण्डपक्षीवाप्रमत्तश्चर विहितानुष्ठानमासेवस्व यथा ह्येतेऽन्तर्वतिसाधारणचरणा एकोदराः पृथग्ग्रीवा अन्योन्यफलभक्षिणश्च प्रमादपरा विनश्यन्ति । तथा यतिरपि प्रमाद्यन् संयमाद् भ्रश्यति ॥६॥
अमुमेवार्थं स्पष्टयन्नाह
चरे पयाइं परिसंकमाणो जं किंचि पासं इह मन्नमाणो । लाभंतरे जीविय वूहइत्ता पच्छा परिन्नाय मलावधंसी ॥७॥
व्याख्या-चरेत् संयमाध्वनि यायात् पदानि मूलगुणादिधर्मस्थानानि परिशङ्कमानो मा ममेह प्रवर्त्तमानस्य तन्मालिन्यं स्यादित्यपायं विगणयन् । यत् किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं कर्मबन्धहेतुत्वेन पाशमिव मन्यमानः । यथा भारुण्डपक्षी पदानि परिशङ्कमानो यत् किञ्चिद् दवरकाद्यपि पाशं मन्यमानश्चरति तथा साधुरपीति परिशङ्कमानः किं
१. स्वपीति स्वपतः श्रुतं शङ्कितस्खलितं भवेत् प्रमत्तस्य ।
जाग्रतः श्रुतं स्थिरपरिचितमप्रमत्तस्य ।। २. अनुदिवसं व्रजत इमान् मूढो जनो न लक्षयति । __जीवस्य यौवनस्य च दिवस-निशाखण्डखण्डान् ॥१॥ ३. शस्त्राग्नि-जल-श्वापद-विशूचिका-व्याध्यहि-विषादिभिः ।
जर्जरमिदं शरीरमुपक्रमैर्बहुविधैः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org