________________
२१२
उत्तरज्झयणाणि-१ ज्ञात्वाऽपि न्यायगं मार्ग वित्ताद्यासक्तमानसाः । ___ अद्रष्टार इवैते स्युर्मोहाद् दुर्गतिभाजिनः ॥५॥ ॥५॥ यदि धनादिकं न त्राणाय तत् किं कार्यमित्याहसुत्तेसु आवी पडिबुद्धजीवी न वीससे पंडिय आसुपन्ने । घोरा मुहुत्ता अबलं सरीरं भारंडपक्खी व चरप्पमत्तो ॥६॥
व्याख्या-सुप्तेष्वविवेकिजनेषु द्रव्यतो निद्रां प्राप्तेषु भावतो धर्मं प्रत्यजाग्रत्सु 'चः पादपूर्ती, अपिः सम्भावने' ततश्च सुप्तेष्वप्यास्तां जाग्रत्सु च गतानुगतिकतया विवेकी न स्वपितीत्युपस्कारः । किन्तु प्रतिबुद्धो द्विधा प्रतिबोधवान् जीवतीत्येवंशीलः प्रतिबुद्धजीवी भवेत् । धर्मिणो जागरणस्यैव बहुफलत्वेन बहुमतत्वात् ॥ तथाहि
वत्सदेशेऽस्ति कौशाम्ब्यां शतानीकसहोदरी । कर्मतो बालविधवा जयन्ती परमार्हती ॥१॥ साऽनिशं जिनमानर्चाऽऽवश्यकेषूदयच्छत । पात्रदानमदात् स्वैरं त्यक्त्वा शङ्कादिदूषणैः ॥२॥ अन्यदा प्रातिहार्याढ्यः सुरासुरनरार्चितः । त्रिलोकीपद्मिनीभानुः श्रीवीरः समवासरत् ।।३।। प्राप्तः सनागरो राजा जयन्त्यपि नमस्यितुम् ।। नत्वाऽथ देशनां श्रुत्वा सा श्राद्धीदमपृच्छत ॥४।। यथा तया कृतः प्रश्नः प्रत्युत्तरमदाद् यथा ।
श्रीवीरः पञ्चमाङ्गे तद् व्यक्तमेवास्ति तद्यथा ॥५।। "सुत्तत्तं भंते ! साहू ? जागरियत्तं भंते ! साहू ? । जयंती ! अत्थेगइयाणं जीवाणं
१. सुप्तत्वं भदन्त ! साधु जागृतत्वं भदन्त ! साधु ? । जयन्ति ! अस्त्येकेषां जीवानां सुप्तत्वं साधु, अस्त्येकेषां जीवानां जागृतत्वं साधु । तत् केनार्थेन भदन्त ! एवमुच्यते ?, अस्त्येकेषां जीवानां जागृतत्वं साधु । जयन्ति ! य इमे जीवा अधार्मिका अधर्मानुगा अधर्मेष्टा अधर्मखादिनोऽधर्मप्रलोकिनोऽधर्मसमुदीरका अधर्मेण चैव वृत्ति कल्पमाना विहरन्ति । एतेषां जीवानां सुप्तत्वं साधु । एते खलु जीवाः सुप्ताः सन्तो नो बहूनां प्राणानां भूतानां जीवानां सत्त्वानां दुःखनतया शोचनतया परितापनतया वर्तन्ते । एते जीवाः सुप्ताः सन्तो आत्मानं वा परं वा तदुभयं वा नो अधार्मिकाभिः संयोजनाभिः संयोजयितारो भवन्ति, एतेषां जीवानां सुप्तत्वं साधु । जयन्ति ! य इमे धार्मिका धर्मानुगा ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org