________________
२११
चतुर्थमसंस्कृताख्यमध्ययनम्
स्थितो राज्ञोऽतिवाल्लभ्यात् कुतोऽस्ति मम भीरिति । कथञ्चिद् राजपुरुषैत्विा सोऽग्राहि दुर्धरः ॥३॥ तेनापि नृपमान्यत्वात् तेभ्यो दत्त्वाऽपि किञ्चन । आत्मा न मोचितो दर्पाद् यत् किञ्चिज्झषता भृशम् ॥४॥ उपभूपं स तैर्नीतो दिष्टो वध्यो नृपेण च । पश्चात् पुरोहितोऽवादीदुपराजमुपस्थितः ॥५॥ ददे गृहस्य सर्वस्वं मा मारयत मत्सुतम् । कोपाद् भूपेन नो मुक्तः शूलारोपाच्च मारितः ॥६।। यथा तस्येह सद्वित्तं प्राणत्राणाय नाजनि ।।
तथैवान्यैरपि ज्ञेयमन्यजन्मनि किं पुनः ? ॥७॥ तन्मूर्छावतो दोषमाह-'दीवे'त्ति प्राकृतत्वेन दीपशब्दस्य परनिपातात् प्रणष्टदीप: विगतप्रकाशदीप इव अनन्तोऽपर्यवसितो मोहोऽज्ञानमस्येत्यनन्तमोहो जन्तुर्नैयायिक न्यायोपपन्नं सम्यग्दर्शनादिकं मुक्तिमार्गं दृष्ट्वाऽप्यदृष्टैव यथा भवति तथा स्यान्मोहादिहेतुत्वाद् वित्तादीनाम् । यदुक्तम्
"मोहाऽऽययाणं मयकामवद्धणो जणियचित्तसंतावो ।
आरंभकलहहेऊ दुक्खाण परिग्गहो मूलं" ॥१॥ अत्र दृष्टान्तेन भावार्थः कथ्यते
नरा दीपकरा: केऽपि केऽप्यात्तज्वलनेन्धनाः । धातुसिद्धिकृते शैले प्रविष्टा महतीं गुहाम् ॥१॥ दूरदेशं गता यावद् दृष्टसर्वगुहान्तराः । दीपाग्नी निर्वृतौ तावत् ततस्तमसि मोहिताः ।।२।। इतस्ततो भ्रमन्तस्ते प्रतीकारविवर्जिताः । गर्तायां पतिताः क्वाऽपि सर्पदष्टा मृताः समे ॥३॥ यथा तेषां गते दीपे ज्ञाताऽप्यविदिता गुहा । एवं क्षयोपशमः श्रुताद् भावप्रकाशतः ॥४॥
१. मोहायतनं मदकामवर्धनो जनितचित्तसन्तापः ।
आरम्भ-कलहहेतुर्दु:खानां परिग्रहो मूलम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org