________________
२१०
नन्वेष परलोकस्य सार्थवाहो महामुनिः । रत्नत्रयादिभाण्डानि दुष्प्रापाणि प्रदास्यति ॥ २३॥ तदर्जितं पुनः कैवल्यादिकमर्जयेन्न हि । सहैतेन ततो याताऽभीष्टं निर्वृतिपत्तनम् ||२४|| इति चातुर्यतो बन्धून् समाधाय स तत्त्वधीः । परिव्रज्यामुपादाय क्रमशो निर्वृतोऽभवत् ॥ २५॥ यथा स्वतत्त्वमालोच्य स्वजनस्य वणिग्वरः । व्रतं प्रत्यादृतस्तद्वद् यतितव्यं परैरपि ॥ २६ ॥ इति वणिक्कथा ॥
तथाह वाचकः
44
'माता भ्राता भगिनी भार्या पुत्रास्तथा च मित्राणि । न हरन्ति रुजं मृत्युं यदि कः स्वजनान्ययोर्भेदः ? ॥१॥ तस्मात् स्वजनस्यार्थे यदिहाकार्यं करोषि रे मूढ ! । भोक्तव्यं तस्य फलं प्रेत्येकेनैव ते बाढम् ॥२॥ तस्मात् स्वजनस्योपरि सङ्गं परिहाय निर्वृतो भूत्वा । धर्मं कुरुष्व यत्नाद् यत् परलोकस्य पथ्यदनम् " ॥३॥ ॥४॥ यथा स्वकृतकर्मभ्यः स्वजनान्न मुक्तिस्तथा न द्रव्यादपीत्याह—
――――――――
वित्तेण ताणं न लभे पत्ते इमंमि लोए अदुवा परत्था । दीवप्पणट्टे व अणंतमोहे नेयाउयं दद्रुमदमेव ॥ ५ ॥
व्याख्या - वित्तेन द्रव्येण स्वकृतकर्मणः त्राणं रक्षणं न लभते प्रमत्तो मद्यादिप्रमादवान् अस्मिन् प्रत्यक्ष एव लोके 'अदुव'त्ति अथवा परत्र परभवे तथेहभवे वित्तं न त्राणाय विप्रवत् ।
तथाहि
एक: कश्चन भूजानिः कस्मिन्निन्द्रमहोत्सवे । वनाय याति शुद्धान्ते पटहं पर्यघोषयत् ॥१॥ यथा सर्वे पुरात् पौरा निर्यान्तु पुरुषा बहिः । निरीयुस्ते समे वेश्यागृहे पुत्रः पुरोधसः ||२||
Jain Education International 2010_02
उत्तरज्झयणाणि - १
For Private & Personal Use Only
www.jainelibrary.org