________________
चतुर्थमसंस्कृताख्यमध्ययनम्
सर्वसाधारणं द्रव्यं पापं केवलमर्जके । तदेतत्पापपूर्णस्य भविता मम का गतिः ? ॥ ९ ॥ इति चिन्तातुरो ग्रीष्मे गत्वा स नगराद् बहिः । वपुश्चिन्ताऽऽदिकं कृत्वा निविष्टोऽभूत् तरोरधः ||१०|| तेनाध्वना व्रजन् कोऽपि मुनिरूचेऽथ तेन भोः ! । आगच्छोपविशोत्तालोऽसि किं मामिह वार्त्तय ॥ ११ ॥ स्वार्थं साधयितुं तूर्णं याताऽस्मीत्यवदन्मुनिः । कस्याप्यस्ति परार्थेऽपि गतिरित्यन्वयुङ्क्त सः ॥१२॥ तवैवास्ति कुटुम्बार्थे सततं परितप्यतः । मर्मणीव ततः स्पृष्टस्तद्वाचा बुबुधे वणिक् ॥१३॥ अवक् च यूयं कुत्रास्थ तेनोक्तं वनमध्यतः । कृताहारे मुनौ तत्र स तत्पार्श्वमगान्मुदा ||१४|| सर्वे स्वार्थपराः कोऽपि न कस्याप्युपयुज्यते । संसारे न स्थिरो योगः समुद्रेऽम्भस्तरङ्गवत् ॥१५॥ इति तद्वचनं श्रुत्वा व्रतार्थी तदनुज्ञया । गत्वा स्ववेश्म स्वजनांस्तान् प्रियां चेति सोऽभणत् ॥१६॥ आपणे व्यवहारं मे कुर्वतोऽपि न तादृशः । लाभो देशान्तरं गत्वा कुर्वे वोऽनुज्ञयाऽथ तम् ॥१७॥ तद्योग्यौ सार्थवाहौ द्वौ तत्रैको हि क्रयाणकम् । दत्त्वा नयेदिष्टपुरं न मार्गयति चार्जितम् ||१८|| न हि भाण्डं न मूल्यं वा दत्ते पूर्वं तदैव वा । यदर्जितं तदप्यन्य आच्छिनत्ति सहागमात् ॥१९॥ तद् ब्रूथ कतरेणाहं गच्छाम्यर्थप्रसिद्धये । आद्येन सह गन्तव्यमित्यूचुस्तस्य बान्धवाः ||२०|| योजयध्वं सहागत्य ततो मां तेन नान्यथा । मम कुर्यात् स विश्रम्भमित्युक्ते तेन बान्धवाः ||२१|| जग्मुस्तेन सहोद्यानमाहुस्ते सार्थपः क्व ते ? । छायायां तमशोकस्य निषण्णं सोऽप्यदर्शयत ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
२०९
www.jainelibrary.org