________________
२०८
उत्तरज्झयणाणि-१ व्यतिरिक्तस्य पुत्रादेरादित्यर्थं प्रयोजनाश्रित्य 'क्यब् लोपे पञ्चमी, चशब्दो वाऽर्थे' साधारणं वाऽऽत्मनः, पुत्राश्चार्थं यच्च करोति कर्म कृष्यादि भवान् ततश्च 'कम्मस्स'त्ति पञ्चम्यर्थे षष्ठीति तस्मात् परार्थात् साधारणाद् वा कृष्यादिकर्मणः सकाशाद् अर्जितस्येति गम्यते । हे कर्मकर्तः ! 'ते' तव तस्यैव अशुभप्रकृतिरूपस्य कर्मणो वेदकाले विपाकसमये नेति निषेधे बान्धवाः स्वजना यदर्थं कर्म कृतवान् करोषि वा ते बान्धवतां बन्धुभावं तद्विभजापनयनादिना नोपयान्ति । यतः
"अत्थोवज्जणहेऊहिं पावकम्मेहि पेरिओ ।
एक्कउ चेव सो जाइ दोग्गइं दुहभायणं" ॥१॥ अतस्तदुपरि प्रेमादित्यागतो धर्म एव सावधानैर्भाव्यमाभीरीवञ्चकवणिग्वत् । तथाहि
कुत्रापि नगरे कश्चिच्चतुरो वणिगापणे । नित्यं व्यवहरन्नस्त्यागत्याऽऽभीरी तमन्यदा ॥१॥ रूपकद्वयकर्पासं ग्राममुग्धा ह्यमार्गयत् । अदाद् द्विरेकतल्लभ्यं तोलयित्वा स वक्रधीः ॥२॥ द्विरूपकाऽऽप्यमापीति मन्वाना साऽगमद् गृहम् । दध्यौ वणिग्मयैकोऽद्य मुधैवालाभि रूपकः ॥३॥ भुञ्जेऽतः सरसं किञ्चिद् ध्यात्वेत्यप्रेषयद् गृहे । सुस्निग्धघृतपूरार्थं समितां गुडसर्पिषी ॥४॥ चक्रे तांस्तत्प्रिया प्रीत्याऽकस्मात् तावत् सुतापतिः । ससखाऽऽगाद् व्रजन् ग्राममुत्तालो बुभुजे स तान् ॥५॥ उत्सुकोऽथ गते तस्मिन्नागत्यापणतो वणिक् । वल्लादि बुभुजे सर्वं प्रियया परिवेषितम् ॥६।। सर्वाद्धृतरसैः पूर्णा घृतपूर्णा न किं कृताः ? । पृष्टेति तांस्ते जामाता भुक्त्वाऽगादिति साऽवदत् ॥७।। व्यमृशत् स ततः पश्य यादृशं मयका कृतम् ।
आभीर्यवञ्चि हाऽन्यार्थे स्वात्माऽयोज्युग्रपाप्मना ।।८।। १. अर्थोपार्जनहेतुभिः पापकर्मभिः प्रेरितः ।
एकाक्येव स याति दुर्गतिं दुःखभाजनम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org