SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् २०७ ऽऽत्मीयानुष्ठानेन कृत्यते छिद्यते पापकारी । कथं पुनरसौ कृत्यते इत्यत्र सूत्रसूचितो दृष्टान्तस्तथाहि एक: कश्चन तस्करो धनिगृहे दुर्भेद्यकुड्येऽकरोत्, क्षात्रं तत्कपिशीर्षकाकृति विवेशाऽत्रैष यावन्निशि । मध्यस्थैर्जगृहे पदोर्बहिरयं मित्रैदृढं हस्तयोः; क्षात्रास्त्रैनिशितैः प्रपीडिततनुः संकृष्यमाणो मृतः ॥१॥ यथा स्वयं कृतक्षात्रात् पीडितोऽसौ तथा जनः । स्वयं कृतेभ्यः पापेभ्यः परत्रेह च पीड्यते ।।२।। एवमुक्तन्यायेन प्रजाः प्राणिनः कृत्यन्ते इति योज्यम् प्रेत्य परलोके इहलोके च । स्यादेतदिहैव कृतमिहैवापगतमत आह-कृतानां कर्मणां न मोक्षोऽस्ति इह परत्र चावश्यं वेद्यं कर्म । उक्तञ्च "यदिह क्रियते कर्म तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते" ॥१॥ एवं मत्वा पापकर्म न कार्य, तदभिलाषोऽपि न कार्यश्चौरस्यैवानर्थहेतुत्वात् ॥ यथा दुरारोहे दस्युर्धवलनिलये क्षात्रखननाद्, धनं नीत्वा प्रातर्बहुजनमगाद् वक्ति किमु कः? । समारूढः सौधे कथमयमहो ! दुर्गविषमे; लघुक्षात्रद्वारा कथमपि सभारः स निरगात् ।।१।। इत्याकर्ण्य निजश्लाघां तां च सत्यां विचिन्त्यन् । स्वाङ्ग क्षात्रमुखं पश्यन् सुहृष्टश्चानुमोदयन् ॥२॥ तावदारक्षकैः पुम्भिर्लक्षितस्तस्करो ह्यसौ । राजादेशाच्छास्यमानः शूलिकायां स रोपितः ॥३॥ इति पापकर्मानुमोदनमपि न कार्यम् ॥३॥ अथ स्वजनेभ्य एव कर्मणां मुक्तिर्भविष्यत्यमुक्तौ चामी धनादिवद् विभज्य कर्म मोक्ष्यन्ते इत्याशक्याह संसारमावन्न परस्स अट्ठा साहारणं जं च करेड कम्मं । कम्मस्स ते तस्स उ वेयकाले ण बंधवा बंधवयं उति ॥४॥ व्याख्या-संसरणं नीचोच्चकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्म Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy