SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ चतुर्थमसंस्कृताख्यमध्ययनम् वदन्नुद्वेगजनको धर्मार्थोद्यमदूरहृत् । मृत्यूत्सङ्गगतो वृद्धस्तथापीच्छां न मुञ्चति ||३२|| तत् किञ्चिद् यावदद्यापि समर्थतनुरस्म्यहम् । तावदात्मार्थसंसिद्धौ प्रयत्नं करवाणि वै ॥ ३३॥ वार्द्धर्ये ह्यपकरिष्यन्ति स्वजना विदितं त्वदः । प्रभूतमपि न द्रव्यं जराऽऽतङ्कनिवारकम् ||३४|| अतस्तैस्तेन चालं मे सम्प्रधार्येति धीरधीः । परिव्रज्यामुपादत्त तयाऽऽत्मार्थमसाधयत् ॥३५॥ इत्यट्टमल्लः ॥ एवमुक्तमर्थं वक्ष्यमाणं च विजानाहि विशेषेण विबुध्यस्व । यथा जनाः प्रमत्ताः प्रमादपराः कमर्थं त्राणलक्षणं 'नु वितर्के' विहिंस्रा विविधहिंसनशीलास्तथा अयताः सावरता ग्रहीष्यन्ति ? न कमपि, किन्तु प्रमत्तत्वाद्युपेताः स्वकर्मभिर्नरकादियातनामेवावाप्स्यन्तीति भावः ॥१॥ अथ केचित् कदाशया अर्थस्यैहिकामुष्मिकसुखहेतुतया प्रधानत्वात् तदुपार्जने प्रमादो न कार्य इत्याहुः यथा— 'धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापात् पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं धनान्यर्जयध्वम् " ॥ "" इति तन्मतमपकर्त्तुमाह जे पावकम्मेहि धणं मणूसा समाययंती अमई गहाय । पहाय ते पासपयट्टिए नरे वेराणुबद्धा नरयं उवेंति ॥२॥ व्याख्या—ये केचन पापकर्मभिः कृषिवाणिज्याद्यनुष्ठानैर्धनं मनुष्याः समाददते स्वीकुर्वन्त्यमतिं 'नञः कुत्सार्थत्वात् ' कुमतिमुक्तरूपां गृहीत्वा सम्प्रधार्य ततश्च प्राय प्रकर्षेण हित्वा धनमेव प्रकृतं ते धनैकरसिकाः पुरुषा अपि च पाशा इव पाशाः स्त्र्यादयः उक्तं हि “वारी गयाण जालं तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं नराण बंधत्थमित्थीओ" ॥१॥ २०५ १. वारी गजानां जालं तिमीनां हरिणानां वागुरा चैव । पाशाच शकनिकानां नराणं बन्धार्थं स्त्रियः ॥ १ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy