________________
२०४
उत्तरज्झयणाणि-१ तद्युक्तः सत्कृतो राज्ञाऽट्टनोऽवन्ती ततो ययौ । विमुक्तयुद्धव्यापारस्तत्राऽऽस्ते वाद्धिकेन सः ॥१८।। वृद्धश्चाक्षम इत्येतं स्वजनो नानुवर्तते । जरद्भवोऽयमित्यादि पराभवति चानिशम् ॥१९॥ सोऽभिमानादनापृच्छ्य स्वजनान् प्रययौ ततः । कौशाम्बी नगरी तत्रैकान्तेऽकार्षीद् रसायनम् ॥२०॥ तेनैष नष्टवार्धक्यो मल्लोऽभूद् बलवान् युवा । युद्धे वृत्ते राजमल्लं निजघान निरङ्गणम् ॥२१॥ आगन्तुकेन मन्मल्लो हत इत्यत्र मन्युमान् । प्रशशंस नृपो नैनं मौनं भेजुर्जना अपि ॥२२॥ निष्फलोऽभूच्छ्रमो शेष इति खेदभृदट्टनः । सभाध्यक्षमदोऽवादीद् राज्ञो ज्ञापनहेतवे ॥२३।। पक्षिणः खचराः सर्वे बुध्यध्वं यूयमप्यदः । राजाङ्गणे जघानैषोऽट्टनमल्लो निरङ्गणम् ॥२४॥ इति श्रुत्वा नृपेणैषोऽट्टनो मान्यो महीभुजाम् । इति तुष्टेन पर्याप्तमदाय्यस्मै धनादिकम् ॥२५॥ भूयोऽट्टनः समृद्धोऽभूदित्याकर्ण्य कुटुम्बकम् । उपतन्निभृतं भक्तं सम्भूयाऽऽस्ते धनाशया ॥२६॥ स तु दध्याविमे दुष्टा मां भजन्तेऽधुनेश्वरम् । पुनः पराभविष्यन्ति क्षीणस्वं स्वार्थलालसाः ॥२७|| जरोपगतमात्मानं यत्नेन महताऽपि हि । शक्तः पुनर्नवीकर्तुं भविष्यामि कथ पुनः ? ॥२८|| आत्मन् ! मोहं परित्यज्य जीविते स्वजने धने । कुरु किञ्चिच्छुभं कर्म जराग्रस्तस्तु शोक्ष्यसि ॥२९।। जराजर्जरसर्वाङ्गो लम्बत्वक् क्षीणलोचनः । गत श्रुतिप्रभादन्तो लालाऽऽविलमुखोऽक्षमः ॥३०॥ कासश्वासादिरोगाक्तः परिभाव्यः सतैरपि । भार्ययाऽप्यकृतालापोऽवज्ञातो बान्धवैरपि ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org