________________
२०३
चतुर्थमसंस्कृताख्यमध्ययनम्
ममापभ्राजना सेयं दुवरिति विचिन्तयन् । प्रतिमल्लं नृपः पश्यन्नेकं मात्सिकमैक्षत ॥४॥ वसां पिबन्तमाघ्रातं तज्ज्ञात्वा मल्लतोचितम् । स्निग्धान्नै: पोषयित्वैनं मल्लविद्यामशिक्षयत् ॥५॥ युग्मम् अट्टनः स तथैवागात् तं मल्लो मात्सिकोऽजयत् ।। स्वावासं विमुखः सोऽथागमद् दध्यौ च चेतसि ।।६।। त्रुट्यबलोऽहं वृद्धत्वाद् युवाऽसावुच्छलबलः । दिक्षुस्तस्य मल्लस्य प्रतिमल्लमथाट्टनः ॥७॥ कर्षकं चलितोऽद्राक्षीत् सीरमेकेन पाणिना । वाहयन्तं द्वितीयेनोत्खनन्तं फलहीलताः ।।८।। स्थित्वा तत्र निरैक्षिष्ट तदाहारमथोल्बणम् । नीहारं चाल्पमत्यन्तं दृष्ट्वा तद्बलरञ्जितः ॥९॥ त्वामीश्वरीकरोमीति प्रलोभ्य तमथाट्टनः । तत्पत्न्या वर्त्तनं दत्त्वा निन्ये सह निजां पुरीम् ॥१०॥ विशोध्यान्तः प्रपोष्याथ नियुद्धं शिक्षितोऽखिलम् । तेन तेने स मल्लेन्द्रः फलहीमल्लसंज्ञकः ॥११॥ प्राच्यपभ्राजनां लोप्तुमट्टनस्तेन संयुतः । सोपारपुरमायातोऽढौकिष्ट नृपसंसदि ॥१२॥ द्वयोस्तरुणयोस्तत्र नियुद्धे मल्लयोः सति । दिनेऽभूत् प्रथमेऽन्योऽन्यं न जयो न पराजयः ॥१३।। स्वं स्वं तावालयं प्राप्तौ स्वमल्लमवगट्टनः । सर्वं निवेदयाभ्रान्तं यत्ते किञ्चन दुष्यति ॥१४॥ तेनाख्याते स मर्दित्वा तं चकार पुनर्नवम् । राज्ञाऽपि मात्सिकस्यान्ते प्रेष्यन्ते स्माङ्गमर्दकाः ॥१५॥ हसित्वा स्माह तानेष शतमल्लाऽऽहवेऽपि हि । किञ्चिद् दुष्यति मे नाङ्गं वृथा कि मर्दनेन मे ? ॥१६॥ समयुद्धौ द्वितीयेऽह्नि तृतीये फलहीमिव । अच्छिनत् फलहीमल्लो मात्सिकस्य शिरो द्रुतम् ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org