________________
चतुर्थमसंस्कृताख्यमध्ययनम्
अथ मनुष्यात्वादिचतुरङ्गी प्राप्यापि महादोषगुणहेतुभूतयोः प्रमादाप्रमादयोर्हेयोपादेयतामाह
असंखयं जीविय मा पमायए जरोवणीयस्स हु नत्थि ताणं । एयं वियाणाहि जणे पमत्ते कन्नु विहिंसा अजया गर्हिति ॥१॥
व्याख्या-असंस्कृतमसंस्करणीयं जीवितमायुर्यन्न शतैरपीन्द्रादिभिः सतो वर्द्धयितुं त्रुटितस्य कर्णपाशवद् अस्य संधातुं वाऽशक्यत्वात् । यतः
"मङ्गलैः कौतुकैर्योगैर्विद्यामन्त्रैस्तथौषधैः ।
न शक्ता मरणात् त्रातुं सेन्द्रा देवगणा अपि" ॥१॥ अतो मा प्रमादीः प्रमादं मा कृथाः । अथ वार्धक्ये धर्मं करिष्यामीत्याशङ्क्याहजरोपनीतस्यार्थस्यार्थान्मृत्यूपान्तगतस्य हुर्यस्मान्नास्ति त्राणं येनासावपनीयते पुनरौवनमानीयते । न तच्छरणमस्ति । ततो यावदसौ नासादयति तावद् धर्मे मा प्रमादीः । यदुक्तम्
"तद् यावदिन्द्रियबलं जरया रोगैर्न बाध्यते प्रसभम् ।
तावच्छरीरमूछौं त्यक्त्वा धर्मे कुरुष्व मतिः" ॥१॥ जरोपनीतस्य नास्ति त्राणमट्टनमल्लवत् । तथाहि—
जितशत्रुर्नृपोऽवन्त्यामट्टनस्तस्य मल्लराट् । अजेयः सर्वराज्येषु धीर: स्थामैकसेवधिः ॥१॥ सोपारपत्तने वार्धितीरे सिंहगिरिर्नृपः । मल्लाय जयिने दत्ते तदौदार्याद् धनं बहु ॥२॥ प्रत्यब्दमट्टनस्तत्र गत्वा मल्लान् विजित्य च । पताकां हरते भूपादादत्ते द्रविणं बहु ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org