________________
तृतीयं चतुरङ्गीयाध्ययनम्
२०१ __ व्याख्या-भुक्त्वाऽऽसेव्य मानुष्यकान् भोगान् प्रशस्तशब्दादीन् अप्रतिरूपान् अनन्यसदृशान् । यथाऽऽयुरायुषोऽनतिक्रमेण पूर्वं पूर्वजन्मसु विशुद्धो निदानरहितत्वेन सच्छोभनो धर्मोऽस्येति विशुद्धसद्धर्मः, केवलां निष्कलङ्कां बोधिमर्हद्धर्मप्राप्तिरूपां बुद्ध्वा प्राप्येत्यर्थः ॥१९॥ ततः किमित्याह
चउरंगं दुल्लहं मच्चा संजमं पडिवज्जिया ।
तवसा धुयकम्मंसे सिद्धे हवइ सासए ॥२०॥ त्ति बेमि । व्याख्या-चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामुक्तस्वरूपां दुर्लभां मत्वा ज्ञात्वा संयम सर्वसावधविरतिरूपं प्रतिपद्याङ्गीकृत्य तपसा द्वादशविधेन धुता अपनीताः कर्मांशा कर्मविभागा येन स धूतकर्मांशः सिद्धो भवति शाश्वतः पुनर्भवहेतुकर्मबीजात्यन्तोच्छेदात् । तथा चाह
"दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्करः ।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः'' ॥१॥ इति ब्रवीमीति प्राग्वत् ॥ (ग्रं० ८८२ अक्षर १२) इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
तृतीयचतुरङ्गीयाध्ययनं समाप्तम् ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org