________________
२००
उत्तरज्झयणाणि-१ बहूनि। एवं वर्षशतान्यपि बहून्यसङ्ख्येयानीत्यर्थः । पूर्ववर्षतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यमिति ख्यापनार्थमित्थमुपन्यासः ॥१५॥
तत्थ ठिच्चा जहाठाणं जक्खा आउक्खए चुया ।
उर्विति माणुसिं जोणिं से दसंगे भिजायए ॥१६॥ व्याख्या-तत्रोक्तल्पेषु स्थित्वा यथास्थानं यद्यस्य स्वानुष्ठानरूपमिन्द्रादिपदं तस्मिन् यक्षा देवा आयुःक्षये च्युता भ्रष्टा उपयान्ति गच्छन्ति । मानुषी योनि 'से' इति स सावशेषसुकृतकर्मा जीवो दशाङ्गानि भोगोपकरणान्यस्येति दशाङ्गोऽभिजायते । आभिमुख्येनोत्पद्यते । एकवचनात् कश्चिन्नवाङ्गादिरपीति ॥१६।। दशाङ्गान्येवाह
खेत्तं वत्थु हिरण्णं च पसवो दास-पोरुसं ।
चत्तारि कामक्खंधाणि तत्थ से उववज्जई ॥१७॥ व्याख्या-क्षेत्रं ग्रामारामादि सेतुकेतूभयरूपं वास्तु खातोत्सृतोभयात्मकं हिरण्यं सुवर्णं चशब्दाद् रूप्यादि च पशवोऽश्वादयः । दासा भृत्याः पौरुषं पदातिसमूहः । चत्वारश्चतुःसङ्ख्यास्तत्र क्षेत्रं वास्त्वित्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः । एते [चत्वारः] कामा मनोज्ञशब्दादयस्तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र स्युस्तत्र तेषु कुलेषु स उपपद्यते । अनेनैकमङ्गमुक्तम् ॥१७॥ शेषाणि नवाङ्गान्याह
मित्तवं नाइवं होइ उच्चागोए य वण्णवं ।
अप्पायंके महापन्ने अभिजाए जसो बले ॥१८॥ व्याख्या–मित्रवान् ज्ञातयः स्वजनास्तद्वान् भवत्युच्चैर्गोत्रः, 'चः' समुच्चये वर्णः स्निग्धत्वादिगुणैः प्रशस्यो गौरादिस्तद्वान्, अल्पतङ्को नीरोगः, महाप्रज्ञः पण्डितः, अभिजातो विनीतः 'जसो'त्ति यशस्वी 'बल'त्ति बली कार्यकरणं प्रति सामर्थ्यवान् 'उभयत्र मत्वर्थीयलोपः सूत्रत्वात् ' । एकैकोऽपि हि मित्रवत्त्वादिगुणस्तत्कार्यकरणक्षमः, किं पुनरमी समुदिता इति ॥१८॥ पुनरन्यत्फलमाह
भोच्चा माणुस्सए भोए अपडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे केवलं बोहि बुज्झिया ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org