________________
१९९
तृतीयं चतुरङ्गीयाध्ययनम्
व्याख्या-शुद्धिः कषायकालुष्यापगमो भवतीति गम्यम् । ऋजुकभूतस्य चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य तथा च धर्मः क्षान्त्यादिः शुद्धस्य तिष्ठति निश्चलतयाऽऽस्ते । अशुद्धस्य कदाचित् कषायोदयादसौ विचलत्यपि तदवस्थितौ च निर्वाणं परमं प्रकृष्टं याति जीवन्मुक्तिमाप्नोतीत्यर्थः ॥ उक्तञ्च
"निजितमदमदनानां वाक्कायमनोविकाररहितानाम् ।
विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम्" ॥१॥ कथम्भूतः सन् घृतसिक्तः पावक इव तपस्तेजोज्वलितत्वेन घृततर्पिताग्निसमान इति ॥१२॥ शिष्योपदेशमाह
विगिंच कम्मणो हेउं जसं संचिणु खंतिए ।
पाढवं सरीरं हिच्चा उट्ठे पक्कमई दिसं ॥१३॥ व्याख्या-वेविग्ध पृथक् कुरु कर्मणः प्रक्रमान्मनुष्यत्वादिविबन्धकस्य हेतुं मिथ्यात्वादि तथा यशः संयमं विनयं वा 'संचिनु' उपचितं कुरु कया क्षान्त्योपलक्षणान्मार्दवादिभिश्च । ततः किं स्यादित्याह-पार्थिवममौदारिकं शरीरं हित्वा त्यक्त्वोज़ स्वर्गापवर्गरूपं [दिशं] प्रक्रामति प्रकर्षण याति भवानित्युपस्कारः ॥१३॥ किञ्च
विसालिसेहिं सीलेहिं जक्खा उत्तरउत्तरा ।
महासुक्का व दिप्पंता मन्नंता अपुणच्चवं ॥१४॥ व्याख्या-'विसालिसेहि'त्ति मागधीभाषया विसदृशैभिन्नैः शीलैर्वतपालनाद्यनुष्ठानविशेषैर्यक्षा देवा ऊर्ध्वं कल्पेषु तिष्ठन्तीत्युत्तरेण सम्बन्धः । उत्तरोत्तरा यथोत्तरप्रधाना महाशुक्ला 'वा इवार्थे' अत्युज्ज्वलतया चन्द्रादित्या इव दीप्यमानाः प्रकाशमाना मन्यमाना मनस्यवधारयन्तः कामातिशयातिसुखमग्नतयाऽपुनश्च्यवमधस्तिर्यगादिषूत्पत्तिभावम् ॥१४॥ पुनर्हेतुमाह
अप्पिया देवकामाणं कामरूवविउव्विणो ।
उर्ल्ड कप्पेसु चिटुंति पुव्वा वाससया बहू ॥१५॥ व्याख्या-अर्पिता: प्राक्पुण्येन ढौकिता इव केषां देवकामानां दिव्यशब्दादिविषयाणां कामरूपविकरणा यथेष्टरूपकरणशक्त्युपेता ऊर्ध्वं कल्पेषु सौधर्माद्यनुत्तरेषु तिष्ठन्त्यायःस्थितिमनुभवन्ति पूर्वाणि वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रमितानि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org