________________
१९४
सोऽप्यहङ्कारकोपाभ्यामाविष्टो निर्गतो बहिः । भ्रमन्नुद्घाटितद्वारं साधूपाश्रयमै
||९||
प्रविश्यात्र मुनीन् नत्वा निस्सङ्गं व्रतमार्थयत् । राजवाल्लभ्यमात्राद्यननुज्ञातो ह्यदुर्न ते ॥१०॥
उत्तरज्झयणाणि - १
मल्लकाद् भूतिमादाय कृते लोचेऽमुना बलात् । दत्त्वाऽस्य लिङ्गं मुनयोऽन्यत्र भीत्या विजहिरे ॥ ११ ॥ कियत्यपि गते काले भूयोऽप्याजग्मुरत्र ते । प्रीत्या सहस्रमल्लाय राजाऽदाद् रत्नकम्बलम् ॥१२॥ सूरयः कृष्णनामानस्तमूचुः स्यादनेन भो ! । अध्वन्यनर्थस्तद् देहि मुनिभ्यस्तद्दलीकृतम् ॥१३॥ तद्गौरवं वचः श्रुत्वा मूर्च्छया तमगोपयत् । एकान्ते वीक्ष्यमाणश्च गोचरोपागतोऽन्वहम् ||१४|| मुच्छितोऽयमिति ज्ञात्वाऽन्यदाऽदीयत सूरिभिः । मुनिभ्योऽसावनापृच्छ्य तं ज्ञात्वा स कषायितः ||१५|| जिनकल्पविधिव्याख्यामन्यदा कुर्वतो गुरून् । श्रुत्वोवाच स किं नाद्य निःसङ्गैः प्रविधीयते ? ॥१६॥ न च वाच्यं व्यवच्छिन्नो निस्सत्त्ववचनं ह्यदः । परलोकार्थ्यहं कर्ताऽधुना तं निष्परिग्रहम् ॥१७॥ कषायभयमूर्च्छादिहेतुनाऽनेन मे सृतम् । परिग्रहेण यत्प्रोक्ता निष्परिग्रहता श्रुते ॥ १८ ॥ आगमे च मुनिः श्लाघ्यो जिताचेलपरीषहः । अचेलत्वं च निर्णीतमाद्यान्त्यजिनशासने ||१९|| जिना दिगम्बरा न स्युस्तच्छिष्याः किं दिगम्बराः ? | गुरुलिङ्गानुगाः शिष्या इतीदं सर्वसम्मतम् ॥२०॥ आर्यकृष्णस्ततोऽभाणीद् मेदं सूत्रातिगं वद । कषायादिनिमित्तत्वं देहस्यापीति तं त्यज ॥२१॥ तद् वस्तु नास्ति यद् विश्वे कषायस्य न कारणम् । एवमग्राह्यता धर्मे जिने मुनिषु तेऽजनि ॥२२॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org