________________
तृतीयं चतुरङ्गीयाध्ययनम्
मोक्षसाधनबुद्ध्यैषु यदि स्याद् गृह्यमाणता । तयैव वस्त्रपात्रादेः शुद्धस्य ग्रहणं श्रुते ||२३||
मूर्च्छानिमित्तताऽप्यस्य देहस्येव न वै मुनेः । बाह्यक्षणिकलभ्येभ्यो वस्त्रेभ्योऽपि च वर्ष्मणः ||२४||
दुर्लभत्वान्तरङ्गत्वचिरस्थानादिकारणैः ।
भृशं मूर्च्छानिमित्तत्वं त्वया त्याज्यं तदप्यतः ॥ २५ ॥ युग्मम् स्यादेतद्देहमात्रे या मूर्च्छा स्वल्पैव सा क्रमात् । बह्वी बह्वी तु वस्त्रादौ सत्यस्मिंस्तत् कथं व्रतम् ? ||२६|| मैवं यतो वराहाद्या द्रमकाद्याश्च जन्तवः । नग्ना अप्यवशात्मानोऽनन्तकर्मार्जका मताः ||२७||
संयोजितमहामूल्यवस्त्राभरणका अपि । उपसर्गधियाऽन्येन सिद्ध्यन्त्येके तपोधनाः ||२८||
तस्मादवशचित्तानां संक्लिष्टानां दुरात्मनाम् । अकिञ्चित्करमेवेदं नाग्न्यमात्रमुदाहृतम् ॥ २९ ॥ एतेन भयहेतुत्वमप्येतस्य निराकृतम् । पावकश्वापदादिभ्यो देहस्यापि यतोऽस्ति भीः ||३०|| एषा व्रतोपकारायोपकृतिर्मे जिनोदिता । इत्यसौ गृह्यमाणाऽपि न भवाय मुनेर्भवेत् ॥३१॥ उक्तं च
44
'जे जित्तिया पगारा लोगे भवहेयवो अविरयाणं । ते चैव य विरयाणं पसत्थभावाण मोक्खाय" ॥३२॥
अग्रन्थोऽयमयं ग्रन्थ इत्येकान्तो न सर्वथा । मूर्च्छावतो भवेद् ग्रन्थो न स्याद् ग्रन्थस्त्वसौ मुनेः ॥ ३३॥ तत् संयमोपकारित्वाद् ग्राह्यं कल्पादि सन्मुनेः । हेतोः प्रत्यक्षसिद्धिश्च सूत्रसिद्धिश्च तद्यथा ॥ ३४ ॥
१. ये यावन्तः प्रकारा लोको भवहेतवोऽविरतानाम् ।
त एव च विरत्तानां प्रशस्त भावानां मोक्षाय ॥
Jain Education International 2010_02
For Private & Personal Use Only
१९५
www.jainelibrary.org