SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीयाध्ययनम् उक्तञ्च पञ्चकल्पे "उँवहि सुय भत्तपाणे अञ्जलीपग्गहे इय । दायणा य निकाए य अब्भुट्टाणे त्ति आवरे" ||८५॥ "किइकम्मस्स य करणे वेयावच्चकरणे इय । समोसरणसन्निसेज्जा कहाए य निमंतणे" ॥८६।। एवमुद्घाटितः सोऽथोत्सूत्रयुग्मं प्ररूपयन् । वान्तदृष्टिः कुदृष्टित्वात् कर्ता भूरिभवभ्रमम् ॥८७|| इति सप्तमो निह्ववः ॥७॥ नवाधिकैः शतैः षड्भिरब्दानां वीरतो गतैः । महान् सर्वविसंवादात् सोऽष्टमो बोटिकोऽभवत् ॥१॥ रथवीरपुरे राजसेवकः शिवभूतिकः । सहस्रमल्लतायोगाद् नृपतेरतिवल्लभः ॥२॥ स विलासान् पुरे कुर्वन् परिभ्रमति लीलया । रात्रियामद्वये चातिक्रान्ते याति निजं गृहम् ॥३॥ तद्वल्लभाऽन्यदा श्वश्रूमवक् त्वत्तनुजन्मना । उद्वेजिताऽहं यदयमतिवेलं समागमी ॥४॥ दिवा भुक्तिं निशि स्वापमकी तदनागमे । उज्जागरबुभुक्षाभ्यां प्रत्यहं बाधिताऽस्म्यहम् ।।५।। ततोऽम्बयोचे वत्से ! त्वमद्य स्वपिहि जागराम् । करिष्येऽद्याहमेवेत्थमकार्षीत् साऽपि तन्निशि ॥६॥ इतरस्यास्तु जाग्रत्या गते यामद्वये निशः । शिवभूति: समागत्य द्वारमुद्घाटयेत्यवक् ॥७॥ तया कुपितया प्रोचे रे ! दुर्नयनिधे ! व्रज । द्वारमुद्घाटितं यत्रेदानीं तत्र गतत्रप ! ॥८॥ १. उपाधिः श्रुतं भक्तपाने अञ्जलिप्रग्रह इति च । दानं च निकाचना चाभ्युत्थानमिति चापरम् ॥ २. कृतिकर्मणश्च करणं वैयावृत्यकरणमिति । समवसरणासन्निषद्या कथा च निमन्त्रणा ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy