________________
१९०
उत्तरज्झयणाणि-१ तस्माद् यथैव निर्मोकः स्पृष्टमात्रो भुजङ्गमम् । अन्वेति तद्वत् कर्मापि नाग्न्यय:पिण्डतुल्यता ॥४८।। एवं कर्मविचारे विप्रतिपन्नोऽन्यदा पुनः । यावज्जीवावधिप्रत्याख्यानं नवमपूर्वगम् ॥४९॥ विचार्यमाणमाकाऽवदत् स परिमाणकम् । तदयुक्तं यदाशंसादोषदुष्टमिदं भवेत् ॥५०॥ पूर्णेऽस्मिन् देवलोकादौ भोक्ष्ये भोगान् सुदुर्लभान् ।
एवंविधपरिणामदूषितं तत् कथं शुभम् ? ॥५१|| उक्तञ्च
"रोगेण व दोसेण व परिणामेण व न दृसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं" ॥५२॥ पूर्वपक्षमिमं वन्ध्यो गुरोर्नत्वा न्यवेदयत् । गुरुरप्युत्तरपक्षं दिदेशास्मै विशेषतः ॥५३॥ स मानाद् गाढमाविष्टस्तन्न हि प्रतिपन्नवान् । गुरुणा स्वयमाभाष्य ततः प्रोच सयुक्तिकम् ॥५४॥ कर्म निर्मोकवत् स्पृष्टमबद्धं यदि चोच्यते । प्रतिप्रदेशवृत्तं तज्जीवापर्यन्तवृत्तिवान् ॥५५॥ प्रतिप्रदेशवृत्तित्वे साध्यवैकल्यमाप्नुयात् । दृष्टान्तः सर्वगं जीवे कर्मैवं खप्रदेशवत् ।।५६।। त्वचापर्यन्तवृत्तित्वे कर्मणोऽङ्गमलादिवत् । न भवान्तरयायित्वं स्यादेवं सर्वनिर्वृतिः ॥५७।। निष्कारणे च निर्वाणे ब्रह्मचर्यादिकं वृथा । देहान्तर्वेदना किञ्च कर्माभावे कथं भवेत् ? ॥५८।। न च बाह्यनिमित्ताऽसौ तदभावेऽपि सम्भवात् । भिन्नदेशस्य हेतुत्वेऽन्यकर्म स्यान्न कि तथा ? ॥५९॥
१. रागेण वा दोषेण वा परिणामेन वा न दुषितं यत् तु ।
तत् खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org