________________
१८५
तृतीयं चतुरङ्गीयाध्ययनम्
इत्यवेत्याधिभूपालसंसत् ते तेन चक्रिरे । स्वपक्षस्थापकं वादं षण्मासास्त्वतिचक्रमुः ॥५०॥ द्वयोस्तिष्ठति नैकोऽपि गुरूनथ नृपोऽवदत् । सीदन्ति राजकार्याणि नाहं श्रोतुमथ क्षमः ॥५१॥ गुरुणोचे नृप ! प्रातनिर्णयोऽयं करिष्यते । विद्यते वस्तु निखिलं विश्वगं कुत्रिकापणे ॥५२।। नोजीवे प्रार्थिते तत्र दद्यात् तं यदि तत्सुरः । तदाऽनेन जितमिति स्वीचक्रेऽदोऽपि पार्थिवः ॥५३॥ गुरुः प्रातर्नृपामात्यरोहगुप्तादिसंयुतः । गतस्तत्र तदध्यक्षं पृथिवीमर्थितः सुरः ॥५४|| अदाल्लेष्टुमसौ तत्ता पृथ्वीसामान्यतस्त्विह । अपृथ्वी याचितस्तोयं नोपृथ्वीं याचितः पुनः ॥५५॥ लेष्टदेशमदालेष्टर्देश: पृथ्व्या न किं भवेत् ? । सत्यं सम्पूर्णपृथ्वीत्वं लेष्टावारोपितं पुरा ॥५६॥ लेष्टरूपमहाद्रव्यापेक्षया तद्दलेऽपि हि । महादेशत्वमारोपात् पृथिव्येवान्यथा ह्यदः ॥५७॥ तद्दलं यदि तस्यैव लेष्टुः पृथ्व्यपि नो तथा । तथा च पृथ्वी देहीति सर्वा देया मही भवेत् ॥५८॥ शक्रेणापि न सा देया ततः कुम्भे यथाऽथिते । सर्वांस्तान्नार्पयेत् कश्चिदशक्यानर्थकत्वतः ॥५९॥ विशिष्टं तु घटं किञ्चिदानयेदेवमर्थितः । पृथ्वीं लेष्टुं च नोपृथ्वी तत्खण्डं पुनरर्पयेत् ॥६०।। अपेक्षाबुद्धिभेदेन पृथिव्येव हि तत्त्वतः । जातिलक्षणयोगेन लेष्टुखण्डस्तु सम्मतः ॥६१॥ नोअपृथ्वीप्रार्थनायां लेष्टुं चाम्बुकणानदात् । सर्वदेशनिषेधार्थनोशब्दस्य विकल्पनात् ॥६२।। पृथ्वीमपृथ्वी नोपृथ्वीं स दद्याद् व्यवहारतः । निश्चयात् तु द्वयं दद्यादापेक्षिकमिदं त्रयं ॥६३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org