SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १८४ उत्तरज्झयणाणि-१ आवाहं वा विवाहं वा उप्पाएइ छविच्छेयं वा करेइ ? । नो इणमढे समढे णो खलु तत्थ सत्थं संकमइ" इत्यादि ।। प्रदीपरश्मयः सौम्य ! कुड्यवन्न नभस्यपि । दृश्यते स्फुरणादीनि देहवद् न तदन्तरे ॥४०॥ नरोऽनतिशयी देहं मुक्तजीवं न बुध्यते । सूक्ष्मं कार्मणदेहं च गत्यन्तरगताविव ॥४१॥ यथा घटात् पृथग्भूतं घटखण्डं हि नो घटः । प्रदेशाः पुच्छगास्तद्वद् नो जीव इति किं न भोः ! ॥४२॥ विकारदर्शनाभावादमूर्त्तद्रव्यतावशात् । विनाशहेत्वभावाच्चाकृतकत्वादनन्तवत् ॥४३॥ नात्मनः खण्डशो नाशो घटस्त व्यतिरेकवान् । खण्डनाशे सर्वनाशे सर्वनाशो ह्यात्मनः स्यान्न तन्मतम् ।।४४।। यदाह “जीवा णं भंते ! किं वटुंति हायंति अवट्ठिया वा ? । गोयमा ! वटुंति नो हायंति अवट्ठिया" इत्यादि । औदारिकशरीरस्य खण्डं पुच्छं हि नश्यति । नश्यतां न तु जीवस्य स्यादमूर्तस्य खण्डना ॥४५।। आत्मप्रदेशनोजीव्ये नोजीवा एव भूरयः । न जीवा नाप्यजीवाश्च हानिस्तल्लाभमिच्छतः ॥४६।। नन्वजीवप्रदेशेषु नोअजीवत्वमुच्यताम् । सन्तुष्टो भव राशीनां तव ज्ञातं चतुष्टयम् ॥४७।। इत्यादि बहुधोक्तोऽपि स यावन्न प्रपद्यते । ततो दध्यौ गुरुर्मुग्धान्नष्टोऽयं नाशयिष्यति ॥४८।। निगृह्योऽयं नृपाध्यक्षमतो ज्ञातो ह्ययं जनैः । सर्वस्य भव्यवर्गस्याग्राह्यवाक्यो भविष्यति ॥४९॥ १. जीवा भदन्त ! कि वर्धन्ते हायन्ति अवस्थिता वा ? । गौतम ! नो वर्धन्ते नो हायन्त्यवस्थिताः ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy