________________
१८३
तृतीयं चतुरङ्गीयाध्ययनम्
आचार्यैः प्रत्यभाण्येष प्रमाणं यदि ते श्रुतम् ।
राशिद्वये तदा कस्ते भ्रमस्तत्र द्वयस्थितेः ? ॥३६।। तथा च स्थानाङ्गसूत्रम्"देवे रासी पण्णत्ता तंजहा जीवा चेव अजीवा चेव । अनुयोगद्वारसूत्रेऽप्युक्तम्
"केइविहा णं भंते ! दव्वा पण्णत्ता । गोयमा ! दुविहा पण्णत्ता तंजहा जीवदव्वा य अजीवदव्वा य" । अत्रापि वक्ष्यति-"जीवा चेव अजीवा य एस लोए वियाहिए" ॥
परो नोजीवराशिस्तु श्रुते नाभिहितः क्वचित् । श्रुतस्याशातना सौम्य ! किमतः क्रियते त्वया ? ॥३७॥ विवक्षामात्रतः स्कन्धाद् देशो भिन्नो न तत्त्वतः । एवमङ्गप्रदेशेभ्यः पुच्छीयास्तेऽप्यभेदिनः ॥३८॥ गृहगोधाऽङ्गतत्पुच्छान्तराले ये व्यवस्थिताः ।
आत्मप्रदेशास्ते सौक्ष्मादमूर्त्तत्वाच्च न स्फुटाः ॥३९।। उक्तञ्च भगवत्याम्
"अहं भंते ! कुम्मे कुम्मा वलिया, गोहे गोहा वलिया, गोणे गोणा वलिया, मणुस्से मणुस्सा वलिया, महिस्से महिस्सा वलिया, एएसि णं दुहा वा, तिहा वा, संखेज्जहा वा च्छिन्नाणं जे अंतरा ते वि णं तेहिं जीवपएसेहिं फुडा हंता फुडा । पुरिसेणं भंते ! हत्थेण वा पाएण वा अङ्गलियाए कटेण वा आसुसमाणे वा जाव अण्णयरेणं तिक्खसत्थेण जाएणं आछिंदमाणे वा विछिंदमाणे वा जाव तेसिं जीवपएसाणं किंचि
१. द्वौ राशी प्रज्ञप्तौ तद्यथा-जीवाश्चैवाजीवाश्चैव ।
२. कतिविधानि भदन्त ! द्रव्याणि प्रज्ञप्तानि ? । गौतम ! द्विविधानि प्रज्ञप्तानि । तद् यथा जीवद्रव्याणि चाजीवद्रव्याणि च ।
३. जीवाश्चैवाजीवाश्चैष लोको व्याहतः ।
४. अथ भदन्त ! कूर्मे कूर्मा बलिनः, गोधे गोधा बलिनः, गवि गावो बलिनः, मनुष्ये मनुष्या बलिनः, महिषे महिषा बलिनः, एतेषां द्विधा वा विधा वा सङ्ख्याता वा च्छिन्ना येऽन्तरा तेऽपि तैर्जीवप्रदेशैः स्फुटा हन्तास्फुटाः । पुरुषो भदन्त ! हस्तेन वा पादेन वाऽङ्गलिकया काष्ठेन वाऽऽशुष्यमाणो वा यावदन्यतरेण तीक्ष्णशस्त्रेण जातेनाच्छिन्दमानो वा विच्छिन्दमानो वा यावत् तेषां जीवप्रदेशानां किञ्चिदाबाधां वा विबाधां वोत्पादयति च्छवीच्छेदं वा करोति ? | नो अयमर्थः समर्थो नो खलु तत्र शस्त्रं सङ्क्रामति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org