________________
१८२
उत्तरज्झयणाणि-१ जीवोऽजीवश्च नोजीव इति राशिवयं मतम् । स्वर्गादित्रितयं यद्वद् यद्वन्नीचादिकत्रयम् ।।२२।। गृहकोकिलपुच्छाद्यं छिन्नं संवीक्ष्यते चलत् । तन्न जीवो नाप्यजीवो वैलक्षण्याद् निगद्यते ॥२३॥ नोजीव इत्यतः ख्यातमित्याद्यद्भुतयुक्तिभिः । आहतप्रतिभश्चक्रे रोहगुप्तेन तापसः ॥२४|| ततः सोऽलीन् मुमोचाशु विषण्णोऽन्यस्तु केकिनः । एतैर्विनिहतेष्वेषु सर्पादीनपि सोऽमुचत् ॥२५॥ प्रसन्नगुरुरन्यस्तान् नकुलाद्यैर्यवारयत् । ततोऽसौ प्रेरयामास दुर्विद्यासेवधिः खरीम् ॥२६।। अभावात् प्रतिविद्यायाः परिमूर्द्ध रजोहृतिम् । भ्रमयित्वा तयैतां स ताडयित्वा न्यवर्तयत् ॥२७॥ स्खलितैषा परिवाजो मूनि मूत्रपुरीषयोः । कृत्वोत्सर्गमदृष्टाऽभूद् निन्द्यतां प्राप गैरिकः ॥२८।। निर्वासितश्चापि पुराद् रोहगुप्तः पुनर्जयी । गुरुमूलमगाद् राजकृतोत्सवपुरस्सरम् ॥२९॥ न्यवेदयच्च वृत्तान्तं गुरुणाऽभाण्यसौ ततः । सुकृतं यज्जितो वादी नेदमुक्तं परं किमु ? ॥३०॥ नोजीवराशिरित्येष पक्षः सिद्धो न नः परम् । प्रतिवादिप्रभाहान्यै प्रयुक्तः साधितोऽपि हि ॥३१॥ अथापि तत्र गत्वाऽऽशु संसदीति निवेदय । वत्स ! नोत्सूत्रवृद्धिः स्याद् दुरन्ता भवतो यथा ॥३२॥ मिथ्यात्वोदयतोऽथैष उत्तस्थे सम्मुखं गुरोः । आत्मदेशस्य नोजीवतायां को दोष उच्यते ? ॥३३॥ स्कन्धाद् व्यतिरिक्तोऽपि देश: सूत्रे निवेद्यते । जीवाजीवविभिन्नोऽपि नोजीवः किं निषिध्यते ? ॥३४|| न च्छिन्नपुच्छं जीव स्यादूनदेशतया तदा । स्फुरणादेर्न चाजीवस्तन्नोजीव इदं मतम् ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org