________________
१७९
तृतीयं चतुरङ्गीयाध्ययनम्
गुरुणाऽप्ययमुत्सूत्रं वदन्नवमनन्तकम् । मा भ्रमत्विति कारुण्यात् सयुक्तिकमभाष्यत ।।७।। सौम्य ! क्रमात् क्रियायुग्मं वेद्यं न युगपत् पुनः । भ्रमः क्षणमनश्चारसूक्ष्मत्वेन क्रियाद्वये ॥८॥ सूक्ष्ममाशुचरं चित्तं येन खेनात्र बध्यते । तदा तज्झानहेतुः स्यान्नैतरेन्द्रियसंविदः ।।९।। उपयोगमयो जीवो देशे यत्रोपयुज्यते । यदा येनेन्द्रियेणैष भवेत्तन्मात्रवेदनः ॥१०॥ पादमूर्द्धगशीतोष्णवेदनं युगपन्न हि । भिन्नदेशत्वतो विन्ध्यमहिमाद्रिस्पर्शवेदवत् ॥११।। पद्मपत्रशतावेधवत् तुल्यक्षणताभ्रमः । दीर्घशष्कुलिकाऽऽस्वादे समं सर्वखसंविदाम् ॥१२॥ सर्वेन्द्रियचरच्चित्तं दुर्लक्ष्यं यदि वेगवत् ।। एकेन्द्रियार्थचार्येतत् सुलक्ष्यं स्यात् कथं वद ? ॥१३।। अन्यार्थविनियुक्तं चेन्मनोऽन्यत्र नियुज्यते । अन्यचित्तो न जानाति गजं तत् किं पुरःस्थितम् ? ॥१४॥ तद्वयेनोपयोगानामानन्त्यं तत्र किं भवेत् ? । एकोपयोगान्नानार्थग्रहणे किमु दूषणम् ? ॥१५॥ सत्यमेकोपयोगेन सामान्यार्थग्रहो मतः । स्कन्धावारपुरग्रामसमूहाधुपयोगवत् ॥१६।। हस्तिनोऽमी हया एते शीतमुष्णमिदं पुनः । विशेषार्थग्रहो नानोपयोगजनितो ह्यसौ ॥१७॥ अत्रास्ति बहु वक्तव्यं नोक्तं गौरवशङ्कया । इत्यादि बहुधाऽभाणि गुरुणा स तु नाबुधत् ॥१८।। उद्घाटितः क्रमेणागात् सोऽपि राजगृहं पुरम् । मणिनागाख्ययक्षस्य तस्थौ चैत्यस्य सन्निधौ ॥१९॥ द्विक्रियावेदनव्याख्यां कुर्वन् यक्षेण मुद्गरम् । उत्पाट्याभाणि साक्षेपमेवमत्र प्ररूपय ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org