________________
१७७
तृतीयं चतुरङ्गीयाध्ययनम्
सविंशतौ गते वीरमोक्षादब्दशतद्वये ।
समुच्छेदकरी दृष्टिरुत्पन्ना मिथिलापुरि ॥१॥ तथाहि
तत्र लक्ष्मीगृहे चैत्ये श्रीमहागिरिसद्गुरोः । शिष्यः कौडिन्यनामाऽस्य शिष्योऽभूदश्वमित्रकः ॥२॥ अनुप्रवादपूर्वस्य वस्तु नैपुण्यकाभिधं । नयर्जुसूत्रसम्बद्धालापकापूरितं पठन् ॥३॥ "पंडुप्पन्नसमयनेरड्या सव्वे वोच्छिज्जिस्संति एवं जाव वेमाणिय त्ति" ॥ एतदालापकाध्यायं कुर्वन् विप्रतिपत्तिभाक् । अभूदिति मतेर्मोहात् सर्वं विच्छेदमेष्यति ॥४।। प्रत्युत्पन्नक्षणस्यान्ते विनाशो यदि तत् कुतः ? । भूयात् फलोपभोक्तृत्वमात्मनः स्वात्तकर्मणः ॥५॥ इति ब्रुवन्नसावूचे श्रुतविद्भिः कुपापरैः ।। वदन् निःशङ्कमुत्सूत्रं मिथ्यात्वं व्रज मा मुधा ।।६।। उत्पादानन्तरं वस्तु क्षणेऽन्यस्मिन् विनश्यति । ऋजुसूत्रनयैकान्तो ह्यसौ स च न हि प्रमा ॥७॥ कालपर्यायमात्रस्य नाशेऽनन्ततदात्मनः । कथं हि वस्तुनो नाशः प्रत्यक्षादिविरोधतः ॥८॥ सूत्रे यथर्जुसूत्रस्य मतेनाशाश्वतं जगत् ।
द्रव्याथिकनयापेक्षावशात् तदपि शाश्वतं ॥९॥ तथा च सूत्रम्
"नरेड्या णं भंते ! किं सासया असासया ? । गो० दव्वट्ठयाए सासया भावट्ठयाए असासया" इत्यादि ॥
१. प्रत्युत्पन्नसमयनैरयिकाः सर्वे व्युच्छेत्स्यन्त्येवं यावद् वैमानिका इति ।
२. नैरयिका भदन्त ! कि शाश्वता अशाश्वताः ? । गौतम ! द्रव्यस्थित्या शाश्वता भावस्थित्या अशाश्वताः ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org