SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७६ उत्तरज्झयणाणि-१ संववहारो वि बली जमसुद्धं पि गहियं सुयविहीए । कोवेइ न सव्वन्नू वंदइ य कयावि छउमत्थं ॥२७॥ णिच्छयववहारनओवणीयमिह सासणं जिणंदाणं । एगयरपरिच्चाए मिच्छं संकादओ जेण ॥२८॥ जइ जिणमयं पव्वज्जह ता मा ववहारनयमयं मुयह । ववहारनउच्छेए तित्थुच्छेओ जओवस्सं" ॥२९॥ नानोपपत्तिभिः पूज्यैस्त एवं प्रतिपादिताः । तथाऽपि नाश्रिता मार्ग सङ्घनोद्घाटितास्ततः ॥३०॥ पर्यटन्तो राजगृहं क्रमात् तेऽगुरधीश्वरः । तत्र मौर्यान्वयोद्भूतो राज बलभद्रः परास्तिकः ॥३१॥ श्रुतपूर्वा प्रभोस्तस्य तेषामव्यक्तवादिता । ततः स्वपुरुषान् प्रैष्यानायितास्ते निजाङ्गणाम् ॥३२॥ मारयध्वं कटामर्दमेतानिति समादिशत् । भटांस्ते तानथानिन्युर्मर्दनार्थं गजानपि ॥३३॥ साधवोऽप्यब्रुवन् राजन् ! श्रुतोऽसि परमार्हतः । तत्कथं श्रमणानस्मानामर्दयितुमिच्छसि ॥३४॥ राजोचे भवतां कक्षा सत्या चेत् क्वाहमास्तिकः ? । व्रतिनोऽपि कथं यूयमनमन्तः परस्परम् ॥३५।। चौरा अभिमरा वा तन्मर्दने दूषणं किमु ? । श्रुत्वेत्युज्जातचैतन्या मार्गाभिमुखतां श्रिताः ॥३६।। ततस्ते क्षामिता राज्ञा पूजिताश्च व्रतस्थिताः । आलोचितप्रतिक्रान्ताः सम्यग् मार्ग प्रपेदिरे ।।३७।। इति तृतीयः ॥३॥ संव्यवहारोऽपि बली यदशुद्धमपि गृहीतं श्रुतविधिना । कुप्यति न सर्वज्ञो वन्दते च कदापि छद्मस्थम् ।। निश्चयव्यवहारनयोपनीतमिह शासनं जिनेन्द्राणाम् । एकतरपरित्यागे मिथ्या शङ्कादयो येन ॥ यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहारनयमिमं मुञ्चत । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy