________________
तृतीयं चतुरङ्गीयाध्ययनम्
भवेन्न चात्र साधुत्वं बिम्बे नास्त्येव वाऽऽप्तता । तद्वन्द्यं न कथं वन्द्याः साधवोऽथैवमुच्यते ॥ १७॥ असंयताश्रितं साधुरूपं वन्दयतो भवेत् । तत्पापानुमतिर्देवाश्रितबिम्बे न सा कथम् ? ॥१८॥ जिनबुद्धाऽथ तद्विम्बं नमतो न हि दूषणम् । यतिबुद्धा यते रूपं नमतोऽपि न तद् भवेत् ॥ १९॥ अथैवमवसन्नादिवन्दनाद्यपि युज्यते ।
स्यात् तथा चापसिद्धान्तः श्रुते बहु निषेधनात् ॥२०॥ न तत्र यतिरूपस्याभावाद् यतिमतिर्भवेत् । क्षान्त्यादियतिलिङ्गस्यानुपलम्भात् स गम्यते ॥ २१॥ प्रत्यक्षदूषणैर्दुष्टान् पार्श्वस्थादीन् नमस्यतः । सावद्यानुमतिस्तेषां भवेन्नेतरथा पुनः ||२२||
उक्तञ्च
46
" जेइ वेलंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निर्द्धधसं पि नाऊण वंदमाणे धुवो दोसो" ॥२३॥ किञ्चैवं वस्त्रपात्रादि न ग्राह्यं देवशङ्कया । एवं सर्वक्रियोच्छेदो मा मोहं यात भो ! ततः ||२४|| अपि च
" जेइ जिणमयं पमाणं मुणि त्ति तो बज्झकरणपरिसुद्धं । देवं पि वदमाणो विसुद्धभावो विसुद्धो त्ति ॥२५॥ परमरहस्समिसीणं समत्तगणिपिडगभरियसाराणं । परिणामियं पमाणं निच्छयमवलम्बमाणाणं ॥ २६ ॥
१. यथा विदूषकलिङ्गं जानतो नमतो भवति दोषः । निद्धन्धसमपि ज्ञात्वा वन्दमाने ध्रुवो दोषः ॥
२. यदि जिनमतं प्रमाणं मुनिरिति ततो बाह्यकरणपरिशुद्धम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध इति ॥ परमरहस्यमृषीणां समस्तगणिपिटकभृतसाराणाम् । परिणामिकं प्रमाणं निश्चयमवलम्बमानानाम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
१७५
www.jainelibrary.org