________________
१७४
उत्तरज्झयणाणि-१ प्रपन्नागाढयोगास्तच्छिष्यास्तद्वाचनागुरुः । स एवाभूत् पराभावाद् विधिज्ञो निपुणो हितः ॥३॥ अन्यदाऽऽयुःक्षयेऽकस्माद् रजन्यां हृदि शूलतः । मृत्युमासददाचार्यो ज्ञातश्च न हि केनचित् ॥४॥ सौधर्मे नलिनीगुल्मविमानेऽसौ सुरोऽजनि । प्रयुक्तावधिरज्ञासीच्छिष्यानागाढयोगिनः ॥५॥ कृपयाऽथ समागत्याश्रित्य देहं पुरातनम् । सर्वै रात्रिककालादि सर्वं कृत्यमचीकरत् ॥६॥ कालभङ्गादिको विघ्नः सर्वो दिव्यप्रभावतः । न्यवारि तेन साधूनां नीतो योगश्च पूर्णताम् ॥७॥ अथ योगावसानेऽसौ गच्छन् दिवमभाषत । अयतेन यता यूयं कारिता वन्दादि यत् ॥८॥ क्षमणीयमिदं सर्वं सुरीभूतस्त्वहं तदा । कृपावशादुपागत्य तान् योगान् वः समापयम् ॥९॥ गच्छन्नस्म्यहमित्युक्त्वा त्यक्त्वा देहमगाद् दिवम् । साधवोऽपि परिस्थाप्य वपुस्तस्येत्यचिन्तयन् ॥१०॥ ववन्देऽस्माभिरज्ञानाद् बहुकालमसंयतः ।। तद्वन्दनं तु सिद्धान्ते नैवोक्तं यतिनां क्वचित् ॥११।। देवो यथाऽयमाचार्योऽभूत् परेऽपि तथा यदि । तद्वन्दनेन तत्पापानुज्ञा संयमिनो भवेत् ॥१२॥ इत्यव्यक्तत्वमापन्नाः सामाचारीप्रवर्तनम् । सर्वे मुमुचुरन्योऽन्यं कृतिकर्म-क्रियादिकम् ॥१३।। स्थविरास्तत्प्रबोधार्थमेवमाहुरिमान् प्रति । शङ्का ह्याकस्मिकभ्रान्त्या का वः प्रत्यक्षसाधुषु ? ॥१४॥ विप्रकृष्टेऽणुजीवादौ परोक्षेषु जिनादिषु । किं न शङ्का तदुक्तेश्चेत् तदुक्तेरेव साधवः ॥१५॥ समिता वन्दनीयाः स्युः किञ्च बिम्बं जिनेशितुः ? । तद्गुणानास्पदं वन्द्यं यतिरूपं तथा न किम् ? ॥१६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org