________________
तृतीयं चतुरङ्गीयाध्ययनम्
१७३ इति प्रज्ञापितो यावन्न तत्त्वं प्रतिपद्यते । बाह्यः कृतोऽसावुद्धाट्य निह्नवस्तिष्यगुप्तकः ॥११॥ सप्तभिः कुलकम् पुर्यामामलकल्पायामाम्रशालवने स्थितः । मित्रश्रीः श्रावकस्तत्र तस्य निह्नवतां विदन् ॥१२।। न्यमन्त्रयत् प्रबोधार्थं गृहे प्रकरणं मम । भिक्षा पर्याप्तमादेया भवद्भिस्तत्र निश्चितम् ॥१३॥ तिष्यगुप्तोऽप्यगात् काले मित्रश्रीरपि सम्भ्रमात् । पुरतो भक्ष्य-पक्वान्न-व्यञ्जनादीन्यढौकयत् ॥१४।। अन्त्यावयवमादायादादेषोऽस्मै तदन्तरात् । पटस्यान्त्यमदात् तन्तुमवादीच्चास्मि पुण्यवान् ॥१५॥ प्रत्यलाभि गुरुर्येन सर्वथा सर्ववस्तुभिः । सोऽप्याह श्राद्ध ! जैनस्त्वं शठत्वं ते किमीदृशम् ॥१६॥ अस्मभ्यं त्वं वरं मा दा अदत्त्वैवं विकत्थनम् । यत् पुनः कुरुषे सेयं पापस्योपरि चूलिका ॥१७|| श्राद्धोऽवदन्मुधा साधो ! मा कुप्यः स्वमतं स्मर । अन्त्यावयववस्तुत्वे सर्वं दत्तं मयाऽद्य वः ॥१८॥ न चेदर्हन्मतं मिथ्या तन्मुञ्चत कदाग्रहम् । किं वस्त्रकर्मकारित्वमन्त्यतन्तोः क्वचिद् भवेत् ? ॥१९।। इत्याद्यैस्तात्त्विकैर्वाक्यैः स मिथ्याऽभिनिवेशतः । निवृत्तः सत्यभक्त्या च श्राद्धेन प्रतिलाभितः ॥२०॥ गुरोः पार्वे मुदा शोधिमादाय मुनिपर्षदा ।
संयुक्तो विजहारोच्चैर्जेनमार्ग प्रभावयन् ॥२१॥ इति द्वितीयो निह्नवः ॥२॥
चतुर्दशाधिके वर्षशतयुग्मे विमोक्षतः । श्रीवीरस्य व्यतिक्रान्ते तृतीयोऽसावजायत ॥१॥ इह श्वेतम्बिकापुर्यां पौलाषाढाख्यचैत्यगः । आर्याषाढाभिधाचार्यः स्थितः सुबहुसाधुयुक् ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org